एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। यथा वेणीसंहारे-'कक्षुकी-(उपमृत्य सहर्षम् ।) महाराज, वर्धसे ब- र्धसे । अयं खलु कुमारभीमसेनः सुयोधनक्षतजारुणीकृतसकलशरीरो दुर्ल- क्षव्यक्तिः । इत्यादिना द्रौपदीकेशसंयमनादिमुखसंध्यादिवीजानां निजनिज- स्थानोपक्षिप्तानामेकार्थतया योजनम् । यथा च रत्नावल्या सागरिकारत्नावलीवसुभूतिबाभ्रव्यादीनामर्थानां मु. खसंध्यादिषु प्रकीर्णानां वत्सराजैककार्यान्वम् 'वसुभूतिः—(सागरिकां निर्वापवार्य ।) बाभ्रव्य, सुसदृशीय राजपुत्र्या ।' इत्यादिना दर्शिनमिनि निर्वहणसंधिः। अथ तदङ्गानि-- संधिविबोधो ग्रथनं निर्णयः परिभाषणम् ॥ ४९ ।। प्रसादानन्दसमयाः कृतिभाषोपगृहनाः । पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ ५० ॥ यथोद्देश लक्षणमाह-- संधिवीजोपगमनं गथा रत्नावल्याम् --'वमुभूतिः-बाभ्रव्य, सुसदृशीय राजपुञ्या । वा. भ्रव्य:- ममाप्येवमेव प्रतिभाति । इत्यनेन नायिकाबीजोपगमात्संधिरिति । यथा च वेणीसंहारे-- 'भीमा-भवति यज्ञवेदिसंभवे, स्मरति भवती यत्तन्मयोक्तम् । चञ्चद्धजभ्रमितचण्डगदाभिधात- मंचूर्णितोरुयुगलस्य मुयोधनस्य ।। म्यानपानमोमिनमोणगाणि. रुतंतयिष्यति कचांस्तव देवि भीमः ॥' इत्यनेन मुखोपक्षिप्तस्य वीजस्य पुनरुपगमात्संधिरिति । अथ विबोधः-- विवोधः कार्यमार्गणम् । या रत्नावल्याम्-'यमुभूतिः-(निरूप्य ।) देव, कुन इयं कन्यका । राजा-~-देवी जानाति । वासवदत्ता-अजउत्त, एसा सागरादो पावि- १. 'आर्यपुत्र, एषा सागरात्प्राप्तेति भणिखामावयोगंधरायणेन मम हसे निहिता । अन एव सामरिकेति शब्यते।' इति छाया,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/५६&oldid=218296" इत्यस्माद् प्रतिप्राप्तम्