एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके अत्ति भणिअ अमञ्चजोगन्धराअणेण मम हत्थे णिहिदा । अदो ज्वेव सा- गरित्ति सद्दावीअदि । राजा-(आत्मगतम् ।) यौगंधरायणेन न्यस्ता । कथमसौ ममानिवेद्य करिष्यति ।' इत्यनेन रत्नावलीलक्षणकार्यान्वेषणाद्विबोधः यथा च वेणीसंहारे— 'भीमः—मुञ्चतु मुञ्चतु मामार्यः क्षणमेकम् । युधिष्ठिरः-किमपरमवशिष्टम् । भीमः----मुमहदवशिष्टम् । संयमयामि तावदनेन दुःशासनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् । युधिष्ठिर----गच्छतु भवान् । 'नुभवतु तपखिनी वेणीसं. हारम् ।' इत्यनेन केशसंयमनकार्यस्यान्वेषणाद्विवोध इति ।। अथ ग्रथनम् - ग्रथनं तदुपक्षेपो यथा रत्नावल्याम्-'योगंधरायणः-देव, क्षम्यतां यद्देवस्यानिवेश मयतत्कृतम् ।' इत्यनेन वत्सराजस्य रत्नावलीप्रापणकार्योपक्षेपाथनम् ।। __यथा च वेणीसंहारे-भीमा--पाश्चालि, न खलु मयि जीवति मं- हर्तव्या दुःशासनविलुलिता वेणिरामपाणिना । तिष्ठतु तिष्ठतु । स्वयमेवाह संहरामि ।' इत्यनेन द्रौपदीकेशसंयमनकार्यस्योपक्षेपागथनम् । अथ निर्णयः-- उनुभूताख्या तु निर्णयः ।। ५१ ॥ यथा रत्नावल्याम्-'यौगंधरायणः--(कृताञ्जलिः ।) देव, श्रूयताम इयं सिंहलेश्वरदुहिता सिद्धादशेनोपदिष्टा, योऽस्याः पाणिग्रहीष्यति स मा- वभौमो राजा भविष्यति । तत्प्रत्ययादम्माभिः स्वाम्यर्थे बहुशः प्रार्थ्यमा. नापि सिंहलेश्वरेण देव्या वासवदत्तायाश्चित्तखेदं परिहरता यदा न दत्ता, तदा लावणिके देवी दग्धेति प्रसिद्धिमुत्पाद्य तदन्तिकं बाभ्रव्यः प्रहितः ।' इत्यनेन यौगंधगयणः खानुभूतमर्थ ख्यापितवानिति निर्णयः । यथा च वेणीसंहारे--'भीमः-देव देव अजातशत्रो, क्वाद्यापि दुर्यो- धनहतकः ! मया हि तस्य दुरात्मनः भूमौ सिस्वा शरीरं निहितमिदमसक्चन्दनाभं निनाङ्गे लक्ष्मीरार्ये निषिक्ता चतुरुदधिपयःसीमया सार्धमुा ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/५७&oldid=218297" इत्यस्माद् प्रतिप्राप्तम्