एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. प्रथमः प्रकाशः . भृत्या मित्राणि योधाः कुरुकुलमखिलं दग्धमेतद्रणानौ __नामैकं यद्वीपि क्षितिप तदधुना धातेराष्ट्रम्य शेषम् ॥' इत्यनेन स्वानुभूतार्थकथनानिर्णय इति । अथ परिभाषणम्----- परिभाषा मियो जल्पा यथा रखावल्याम्---'रत्नावली--(आत्मगतम् ।) आवराहा देवीए ए सक्कुणोमि मुहं दंसिदुम् । वासवदत्ता-(सासम् । पुनर्वाहू प्रसार्य ।) एहि अयि णिहुरे, इदाणी पि बन्धुमिणेहं दंसेहि । (अपवार्य ।) अजउत्त, लज्जामि कख अहं इमिणा णिसंसत्तणेण । ता लहुं अवणेहि से बन्धणम् । राना---ययाह देवी । (बन्धनमपनयति ।) वासवदत्ता--(वसुभूति निदि- श्य ।) अज्ज, अमच्चयोगन्धरायणेण दुजणीकह्मि नेण जाणन्तेण वि जानक्खिदम् ।' इत्यनेनान्योन्यवचनात्परिभाषणम् । ___ यथा च वेणीसंहारे—'भीमः-कृष्टा येनासि राज्ञा सदसि नृपशुना तेन दुःशासनेन ।' इत्यादिना 'कासौ भानुमती योपहसति पाण्डवदा- रान् ।' इत्यन्तेन भाषणात्परिभाषणम् । अथ प्रसादः- प्रसादः पर्युपासनम् । यथा रत्नावल्याम-'देव, क्षम्यताम् । इत्यादि दर्शितम् । यथा च वेणीसंहारे-'भीमः- द्रौपदीमुधमन्य ।) देवि पाञ्चालराज- तनये, दिष्ट्या वर्धसे रिपुकुलक्षयेन।' इत्यनेन द्रौपद्या भीमसेनेनाराधितत्वा- प्रसाद इति । अथानन्दः- __ आनन्दो वाञ्छितावाप्तिः यथा रत्नावल्याम्—'राजा-यथाह देवी। (रत्नावली गाति ।) १. 'कृतापराधा देव्या न शक्नोमि मुख दयितुम् ।' इति छाया. २. गह अयि निष्ठरे, इदानीमपि पन्धुनेई दर्शय । आर्यपुत्र, लल्ने खल्वहमनेन नृशंसखेन । तलवपनयास्या बन्धनम् ।' इति च्छाया. ३. 'आर्य, अमात्ययौगंधरायणेन दुर्जनी- कृतास्मि येन जाननापि नाचक्षितम् । इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/५८&oldid=218298" इत्यस्माद् प्रतिप्राप्तम्