एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ दशरूपके यथा च वेणीसंहारे--'द्रौपदी-णाध, विसुमरिदह्मि एवं वाचार । गाधस्स प्पसादेण पुणो सिक्खिस्सम् । (केशान्बध्नाति ।) इत्याभ्यां प्राई नाव. लीप्राप्तिकेशसंयमनयोर्वत्सराजद्रौपदीभ्यां प्राप्तत्वादानन्दः । अथ समय:---- समयो दुःखनिर्गमः ॥५२॥ यथा रत्नावल्याम्—'वासवदत्ता-(रत्नावलीमालिङ्गय ।) सेमस्तस सम- म्सस बहिणिए ।' इत्यनेन भगिन्योरन्योन्यसमागमेन दुःखनिर्गमात्समयः । __ यथा च वेणीसंहारे-- 'भगवन् , कुतस्तस्य विजयादन्यद्यस्य भगवा- न्पुराणपुरुषः स्वयमेव नारायणो मङ्गलान्याशास्ते । कृतगुरुमहदादिक्षोभसंभूतमूर्ति गुणिनमुदयनाशस्थानहेर्नु प्रजानाम् । अजममरमचिन्त्यं चिन्तयित्वापि न त्यां भवति जगति दुःखी कि पुनर्देव दृष्ट्वा ।' इत्यनेन युधिष्ठिरदुःखापगमं दर्शयति ।। अथ कृतिः ..... कृतिलब्धार्थशमनं यथा रत्नावल्याम्-'राजाको देव्याः प्रसादं न बहु र यते । वासवदत्ता-अजउत्त, दुरे से मादुरलम् । ता तथा करेमु जधा बन्धु- अणं न सुमरेदि ।' इत्यन्योन्यवचमा लब्धायां रत्नावल्यां राज्ञः मुश्लिष्टय उपशमनास्कृतिरिति । यथा च वेणीसंहारे----'कृष्णः-एते खलु भगवन्तो यामवाल्मीकि-' इत्यादिना 'अभिषेकमारब्धवन्तस्तिष्ठन्ति ।' इत्यनेन प्राप्तराज्यस्याभिषे. कमङ्गलैः स्थिरीकरणं कृतिः । अथ भाषणम्--- मानाधामिश्च भाषणम् । ५. 'नाथ, विस्मृताम्येतं व्यापारम् । नाथस्य प्रसादेन पुन: शिक्षिष्यामि ।' इति म्च्छाया. २. 'समाश्वसिहि समाश्वसिहि भगिनिके।' इति च्छाया. ३. 'आर्यपुत्र, दरेऽस्या मातृकुलम् । तत्तथा कुरुष्व यथा बन्धुजनं न स्मरति । इति च्छाया,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/५९&oldid=218299" इत्यस्माद् प्रतिप्राप्तम्