एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके अथ प्रशस्तिः- प्रशस्तिः शुभशंसनम् । यथा वेणीसंहारे-'प्रीततरश्चेद्भवान् , तदिदमेवमस्तु । अकृपणमतिः कामं जीव्याजनः पुरुषायुषं भवतु भगवद्भक्तिद्वैतं विना पुरुषोत्तमे । कलितभुवनो विद्ववन्धुर्गुणेषु विशेषवि- सततमुकृती भूयाद्भूपः प्रसाधिनमण्ड :: ॥ इति शुभशंसनात्प्रशस्तिः । इत्येतानि चतुर्दश निर्वहणाङ्गानि । एवं चतु.पण गरमन्निनाः पञ्चसंधयः प्रतिपादिताः । पट्नकारं चाङ्गानां प्रयोजनमित्याह- उक्ताङ्गानां चतुःषष्टिः षोडा चैषां प्रयोजनम् ।। ५४ ॥ कानि पुनस्तानि षट्प्रयोजनानि- इष्टस्याधस्य रचना गोप्यगुप्तिः प्रकाशनम् । रागः प्रयोगस्याश्चर्य वृत्तान्तस्यानुपक्षयः ॥ ५५ ।। विवक्षितार्थनिवन्धनं गोप्यार्थगोपनं प्रकाश्यार्थप्रकाशनमभिनेयराग द्धिश्चमत्कारित्वं च काव्यस्येतिवृत्तम्य विम्नर इत्यङ्गैः षट्प्रयोजनानि सं. पाद्यन्त इति । पुनर्वस्तुविभागमाह- द्वेधा विभागः कर्तव्यः सर्वस्यापीह वस्तुनः । सूच्यमेव भवेत्किचिदृश्यश्रव्यमथापरम् ।। ५६ ॥ कीदृस्मूच्यं कीदृश्यश्रव्यमित्याह- नीरसोऽनुचितस्तत्र संमूच्यो वस्तुविस्तरः । दृश्यस्तु मधुरोदात्तरसभावनिरन्तरः ॥ ५७ ॥ सूच्यस्य प्रतिपादनप्रकारमाह- अर्थोपक्षेपकैः मूच्यं पञ्चभिः प्रतिपादयत् । विष्कम्भचूलिकाङ्कास्याङ्कावतारमवेशकैः ॥ ५८ ॥ तत्र विष्कम्भः- वृत्तवतिष्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥ ५९ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/६१&oldid=218301" इत्यस्माद् प्रतिप्राप्तम्