एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके अङ्कान्त एव पात्रमङ्कान्तपात्रम् । तेन विश्लिष्टस्योत्तराङ्कमुखस्य सूचनं तदशेनोत्तराङ्कावतारोऽङ्कास्यमिति । यथा वीरचरिते द्वितीयाङ्कान्ते- '(प्रविश्य ।) मुमत्रः- भगवन्तौ वसिष्ठविश्वामित्रौ भवतः सागवानाह्व- यतः । इतरे--क्व भगवन्तौ । सुमन्त्र:--महाराजदशरथस्यान्तिके । इतरे-तदनुरोधात्तत्रैव गच्छामः ।' इत्यङ्कसमाप्तौ '(नतः प्रविशन्त्युपवित्रा वसिष्ठविश्वामित्रपरशुरामा:)' इत्यत्र पूर्वाकान्त एवं प्रविष्टेनसुमन्नपात्रेण शतानन्दजनककथार्थविच्छेद उत्तराङ्कमुखसूचनादकास्यमिति । अथाङ्कावतार:--- अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः॥६२॥ एभिः संसूचयेत्सृच्यं दृश्यमकैः प्रदर्शयेत् । यत्र प्रविष्टपात्रेण सूनितमेव पूर्वाश्राविच्छिन्नार्थतयैवाकान्तरमापतति प्रवेशकविष्कम्भकादिशून्यं सोऽङ्कावतारः । यथा गादविकाग्निमित्रे प्रथमा. कान्ते–'विदूषकः-तेणे हि दुवेदि देवीए पेक्खागेहं मदुअ सङ्गीदी. वअरणं करिअ तत्थभवदो दूदं विसजेध । अधवा मुदङ्गसद्दो क्षेत्र णं उत्थावयिसदि।' इत्युपक्रमे मृदङ्गशब्दश्रवणादनन्तरं सर्वाण्येव पात्राणि प्रथमाङ्कप्रकान्तपात्रसंक्रान्तिदर्शनं द्वितीयाङ्कादावारभन्त इति प्रथमाङ्का- थाविच्छेदेनैव द्वितीयाङ्कस्यावतरणादकावतार इति । पुनस्त्रिधा वस्तुविभागमाह- नाट्यधर्ममपेक्ष्यैतत्पुनर्वस्तु विधेष्यते ।। ६३ ॥ केन प्रकारेण त्रैधं तदाह-- __ सर्वेषां नियतस्यैव श्राव्यमश्राव्यमेव च । तत्र । सर्वश्राव्यं प्रकाशं स्वादश्राव्यं स्वगतं मतम् ॥ ६४ ॥ सर्वश्राव्यं यद्वस्तु तत्प्रकाशमित्युच्यते । यत्तु सर्वस्याश्राव्यं तत्स्वगत मिति शब्दाभिधेयम् । १. 'पात्राङ्कम्य' इति पाठः, २. 'तेन हि द्वावपि देव्याः प्रेक्षागेहं गला संगीतको- पकरणं कृत्वा तत्रभवतो दूतं विसर्जशनम् । अथवा मृदङ्गशब्द एचैनमुत्थापयिष्यति ।' इतिच्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/६३&oldid=218303" इत्यस्माद् प्रतिप्राप्तम्