एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। नियतश्राव्यमाह- द्विधान्यनाट्यधर्माख्यं जनान्तमपवारितम् । अन्यत्तु नियतश्राव्यं द्विप्रकारं जनान्तिकापवारितभेदेन । तत्र जनान्तिकमाह- त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् ॥ ६५ ॥ अन्योन्यामत्रणं यत्स्याज्जनान्ते तजनान्तिकम् । यस्य न श्राव्यं तस्यान्तर ऊध्वेसर्वाङ्गुलं मममिनिाना TIvi कर कृत्वान्येन सह यन्मन्यते तज्जनान्तिकमिति । अथापवारितम्- रहस्यं कथ्यतेऽन्यस्य परायत्यापवारितम् ॥ ६६ ॥ परावृत्त्यान्यस्य रहस्यकथनमपवारितमिति । नाट्यधर्मप्रसङ्गादाकाशभाषितमाह-- किं ब्रवीष्येवमित्यादि विनापात्रं ब्रवीति यत् । श्रुखेवानुक्तमप्येकस्तत्स्यादाकाशभाषितम् ।। ६७ ॥ स्पष्टार्थः । अन्यान्यपि नाट्यधर्माणि प्रथमकल्पादीनि कैश्चिदुदाहृतानि । तेषाम- भारतीयत्वान्नाममालाप्रसिद्धानां केषांचिद्देशभाषात्मकत्वान्नाट्यधर्मन्वाभावा- लक्षणं नोक्तमित्युपसंहरति-- इत्यावशेषमिह वस्तुविभेदजातं रामायणादि च विभाव्य बृहत्कथां च । आसूत्रयेत्तदनु नेतरसानुगुण्या- चित्रां कथामुचितचारुवचःमपञ्चैः॥ ६८ ॥ वस्तुविभेदजातं वस्तु वर्णनीयं तस्य विभेदजातं नामभेदाः । रामाय- णादि बृहत्कथा च गुणात्यनिर्मितां विभाव्य आलोच्य । तदनु एतदुत्त. रम् । नेत्रिति । नेता वक्ष्यमाणलक्षणः, रसाश्च तेषामानुगुण्याचित्रां चि. श्ररूपां कथामाख्यायिकाम् । चारूणि यानि वचांसि तेषां प्रपञ्चैविस्तारैरा- सूत्रयेदनुप्रथयेत् । तत्र बृहत्कथामूलं मुद्राराक्षसम्-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/६४&oldid=218304" इत्यस्माद् प्रतिप्राप्तम्