एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। द्वितीयः प्रकाशः । ___ रूपकाणामन्योन्यं भेदसिद्धये वस्तुभेदं प्रfuiii नायकभेदः प्रतिपाद्यते- नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिवाङ्मी रूढवंशः स्थिरो युवा ! १ ॥ बुद्धयुन्साहस्मृतिप्रज्ञाकलामानसमन्वितः। शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥२॥ नेता नायको विनयादिगुणसंपन्नो भवति । तत्र विनीतः । यथा वीरचरिते- 'यद्ब्रह्मवादिभिरुषासितबन्धपादे _ विद्यानपोजननिधी तपतां वरिष्ठे। देवात्कृतस्त्वयि मया विनयापचार- स्तत्र प्रसीद भगवन्नयमझलिस्ते ।। मधुरः प्रियदर्शनः । यथा तत्रैव- 'राम राम नयनाभिरामतामाशयस्य सहशी समुदहन । अप्रतय॑गुणरामणीयकः सर्वथैव हृदयंगमोऽसि मे ॥' त्यागी सर्वस्वदायकः । यथा---- 'स्वत्रं कर्ण: शिविर्मासं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ।। दक्षः क्षिप्रकारी । यथा वीरचरिते- 'स्फूर्जद्वजसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो गमस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिद्धं धनुः । अण्डारः कलभेन यद्वदनले वत्सेन दोर्दण्डक. स्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भन्नं च तत् ॥' प्रियंवदः प्रियभाषी । यथा तत्रैव- 'उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरु- वीयं यत्तु न तद्रािं पथि ननु व्यक्तं हि तत्कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमहीनिानदानावधिः सत्यब्रह्मतपोनिधेर्भगवतः किंवा न लोकोत्तरम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/६६&oldid=218306" इत्यस्माद् प्रतिप्राप्तम्