एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके अथ धीरोदात्तः--- महासचोऽतिगम्भीरः क्षमावानविकत्थनः ॥ ४ ॥ स्थिरो निगृढाहकारो धीरोदात्तो दृढव्रतः। महासत्त्वः शोकनोधाद्यनभिभूतान्तःसत्त्वः । अविकत्थनोऽनात्मश्ला- घनः । निगूढाहंकारो विनयच्छन्नावलेपः । दृढवतोऽङ्गीकृत निर्वाह को धी- रोदात्तः । यथा नागानन्दे--'जीमूतवाहन:--- शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्ति न पक्ष्यामि तवैव तावर्तिक भक्षणात्त्वं पिरतो गरुत्मन् ॥' यथा न रामं प्रति- हातम्यामिकाग विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ।।' यच्च केयाचित्स्थैर्यादीनां सामान्यगुणानामपि विशेषलक्षणे कनिकीर्तन तत्तेषां तबाधित्यप्रतिपादनार्थम् । ननु च कथं जीमूतवाहनादिन गान- न्दादावुदात्त इत्युच्यते । औदात्त्यं हि नाम सर्वोत्कर्षे वृत्तिः । तच विजिगीषुत्व एवोपपद्यते । जीमूतवाहनम्नु निजिगीषुतयैव कनिना प्रति. पादितः । यथा- 'तिष्ठन्भाति पितुः पुरो भुवि यथा सिंहासने किं तथा यत्संवाहयतः सुखं हि चरणौ तातस्य कि राज्यतः । कि भुक्ते भुवनत्रये धृतिरसौ भुक्तोझिते या गुरो- रायासः खलु राज्यमुज्झितगुरोखत्रास्ति कश्चिद्गुणः ॥' इत्यनेन । 'पित्रोविधातुं शुश्रूषां त्यक्त्वैश्वर्यं क्रमागतम् । वनं गाम्यहमप्येष यथा जीमूतवाहनः ।।' इत्यनेन च । अतोऽम्यात्यन्तशमप्रधानत्वात्परमकारुणिकत्वाच्च वीतरागव- च्छान्तता । अन्यच्चात्रायुक्तं यत्नयाभूनं राज्यमुखादौ निरभिलापं नायक- मुपादायान्तरा नयाभूतमलयवत्यनुरागोपवर्णनम्, यच्चोक्तं सामान्यगुणयोगी द्विनादिरशान्त इति, तदपि पारिभाषिकत्वाइवास्तवमित्यभेदकम् । अतो वस्तुस्थित्या बुद्ध युधिष्ठिर-जीमूतवाहनादिन्यवहाराः शान्ततामाविर्भावयन्ति।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/६९&oldid=218309" इत्यस्माद् प्रतिप्राप्तम्