एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके 'ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । . जामदग्यश्च वो मित्रमन्यथा दुर्मनायते ॥ इत्यादिना रावणं प्रति धीरोदात्तत्वेन कैलासोद्धारसार-' इत्यादिभिश्च रामा- दीन्प्रति प्रथमं धीरोद्धतत्वेन पुनः 'पुण्या ब्राह्मणजातिः' इत्यादिभिश्च धीरशान्तत्वेनोपवर्णितः । न चावस्थान्तराभिधानमनुचितमङ्गभूतनायकानां नायकान्तरापेक्षया महासत्त्वादेरव्यवस्थितत्वादङ्गिनस्तु रामादेरेकप्रबन्धोषा- त्तान्प्रत्येकरूपत्वादारम्भोपात्तावस्थातोऽवस्थान्तरोपादनमन्याय्यम् । यथो- दात्तत्वाभिमतस्य रामस्य छद्मना वालिवधादमहासत्त्वतया स्वावस्थापरित्याग इति । वक्ष्यमाणानां च दक्षिणाद्यवस्थानां यूवा प्रत्यन्ययाहृत इति नित्यमा. पेनागिर्भागानुपात्तावस्थानोऽवम्यान्नगाभधानमङ्गाङ्गिनोरप्यविरुद्धम् । अथ शृङ्गारनेत्रवस्था:---- स दक्षिणः शटो धृष्टः पूर्वी प्रत्यन्यया हृतः ॥ ६ ॥ नायकप्रकरणात्पूर्वी नायिका प्रपन्ययापूर्वनायिकयापहृतचित्तख्यवम्यो वक्ष्यमाणभेदेन स चतुरवस्थः । तदेवं पूर्वोक्तानां चतुर्णा प्रत्येकं चनुरवम्य- खेन षोडशवा नायकः । तत्र- दक्षिणोऽस्यां सहृदयः योऽस्या ज्येष्ठायां हृदयेन सह व्यवहरति स दक्षिणः । यथा ममैव-. "प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो रतिक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य विनयः । सविश्रम्भः कश्चित्कथयति च किंचित्परिजनो न चाहं प्रत्येमि प्रियसखि किमप्यस्य विकृतिम् ॥' यथा वा--- 'उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः । उपचारविधिर्मनस्विनीनां ननु पूर्वाभ्यधिकोऽपि भावशून्यः ।। अथ शठ:---- गूढविप्रियकृच्छतः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/७१&oldid=218311" इत्यस्माद् प्रतिप्राप्तम्