एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। दक्षिणस्यापि नायिकान्तरापहृतचित्ततया विप्रियकारिवाविशेषेऽपि स- हृदयत्वेन शाद्विशेषः । यथा- 'शठोऽन्यस्याः काञ्चीमणिरणितमाकये सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्वाचक्षे घृतमधुमयत्वबहुवचो- विषणाघूर्णन्ती किमपि न सखी मे गणयति ॥' अथ धृष्ट:---- व्यक्ताङ्गकृतो धृष्टो यथामरुशतके- 'लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले के कजलकालिमा नयनयोस्ताम्बलरागोऽपरः । दृष्ट्वा को पवियाविमा डनमिदं प्रातश्चिरं प्रेयमो लीलातामरसोदरे मुगदृशः श्वासाः समाप्ति गताः ॥' भेदान्तरमाह- ऽनुकूलस्त्वेकनायिकः ॥ ७ ॥ यथा--- 'अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु य- द्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितं । ___ भद्रं तस्य सुमानुषस्य कथमध्येकं हि तत्प्राप्यते ॥' किमवस्था पुनरेषां वत्सरामादिनाटिकानायकः स्यादित्युच्यते । पूर्वम- नुपजातनायिकान्तरानुरागोऽनुकूलः । परतम्तु दक्षिणः । ननु च गूढविधि- यकारित्वाद्वयक्ततरविप्रियत्वाञ्च शाट्यशाप्ये ऽपि कस्मान्न भवतः । न तथा- विधविप्रियत्वेऽपि वत्सराजादेराप्रबन्धसमाप्तेज्येष्ठ नायिका प्रति सहृदयत्वा- दक्षिणतैव । न चोभयोज्येष्ठाकनिष्ठयो यकस्य स्नेहेन न भवितव्यमिति वाच्यमविरोधात् । महाकविप्रबन्धेषु च- 'साता तिष्ठति कुन्तलेश्वरसुता वारोऽअराजस्वसु- ते रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/७२&oldid=218312" इत्यस्माद् प्रतिप्राप्तम्