एतत् पृष्ठम् अपरिष्कृतम् अस्ति

___ दशरूपके मुहुः पश्यशृण्वरजनिचरसेनाकलकलं जटाजूटप्रन्थि द्रढयति रघूणां परिवृतः ।।' अथ गाम्भीर्यम् -- गाम्भीर्य यत्प्रभावेन विकारो नोपलक्ष्यते ॥ १२ ॥ मृदुविकारोपलम्भाद्विकारानुपलब्धिरन्येति माधुर्यादन्यदाम्भीर्यम् । यथा- 'आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितम्तस्य स्वल्पोऽप्याकारविभ्रमः ।।" अथ स्थैर्यम् ---- ___ व्यवसायादचलनं स्थैर्य विघ्नकुलादपि । यथा वीरचरिते- 'प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यनिकमात् । न त्वेवं दृपयिष्यामि शस्त्रग्रहमहानतम् ।।' अथ तेजः- __ अधिक्षेपाद्यमहनं तेजः प्राणात्ययेष्वपि ॥ १३ ॥ यथा- 'ब्रूत नृतनकृ मारफन्टानां के भवन्त्यमी ! अङ्गुलीदर्शनायेन न जीवन्ति मनम्विनः ।।" अथ ललितम् -- शृङ्गाराकारचेष्टाख सहज ललितं मृदु । स्वाभाविकः शृङ्गारो मृदुः । तथाविधा शृङ्गारचेष्टा च ललितम् । यशा ममैव- 'लावण्यमन्मथविलासविम्भितेन म्वाभाविक न सुकुमारमनोहरेण । किंवा ममेव सखि योऽपि ममोपदेष्टा तस्यैव किं न विषमं विदधीत तापम ।' अथौदार्यम्- पियोत्याजीवितादानमौदार्य सदुपग्रहः ॥ १४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/७५&oldid=218315" इत्यस्माद् प्रतिप्राप्तम्