एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। प्रियवचनेनसहानीवितावधेर्दानमौदार्य सतामुपग्रहश्च। यथा नागानन्दे- 'शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवैव ताकि भक्षणात्त्वं विरतो गरुत्मन् ॥' सदुपग्रहो यथा- . 'एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रूत येनात्र कः कार्यमनास्था बाचवस्तुषु ।' अध नायिका- स्वान्या साधारणस्त्रीति तद्गुणा नायिका त्रिधा । तद्गुणेति यथोक्तसंभवे यामागुणगोगिनी नायिकेति । स्वस्त्री परस्त्री साधारणस्त्रीत्यनेन विभागेन त्रिधा । तत्र खीयाया विभागमभ गाना-मार- मुग्धा मध्या प्रगल्भेति स्वीया शीलार्जवादियुक् ॥ १५ ॥ शीलं सुवृत्तम् । पहिला लज्जावती गुरुपोगवानिपुणा स्त्रीया नायिका । तत्र शीलवती यथा--- “कुन्दशान्टिआए पेच्छह जोवणला अण्णविममविलासा । पवसन्ति व पत्रमिए एन्ति ब पिये घरं एत्ते ।।" नादिगोगिनी यथा--- 'हेसि अमविआरमद्धं भमि विरहि विन्टामसुन्द्रामम् । भणि महातम धण्णाण घरे कलत्ताणम् ॥ लज्जावती यथा । 'लजापज्जत्तामाहणाः परतित्तिणिप्पिवासाई । अविणअदुम्मेहाई धणगाण बरे कलत्ताई ॥ १. 'स्त्रापि' इति पाटः. २. 'कुलबालिकाया: प्रेक्षध्वं यौवनलावण्पवित्रमविलासाः । प्रवसन्तीव प्रवसिते आगच्छन्तीव प्रिये गृहमागते ॥ इति च्छाया. ३. 'हसितमविचारमुग्धं भ्रमितं विरहितविलासमुच्छायम् । भणित स्वभावसरलं धन्यानां गृहे कलयाणाम् ॥ इति च्छाया. ४. 'लजापर्याप्तग्नसावनानि परतृप्तिनिपिपासानि । अविनयदुधांसि धन्यानां गृहे कलत्राणि ॥' इसि च्छाया

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/७६&oldid=218316" इत्यस्माद् प्रतिप्राप्तम्