एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके भूयोऽप्येवमिति सवलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एष निङ्गतिपरः प्रेयान्रदन्त्या हसन् ।' धाराधीरप्रगल्भा मध्याधीरेव तं वदति सोत्प्रासवक्रोक्त्या। यथा तत्रैव- 'कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः । तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः स्खलागाः ।। पुनश्च- देवा ज्येष्ठा कनिष्ठा चेत्यमुग्धा द्वादशोदिताः । मध्याग्रगलमाभेदानां प्रत्येकं ज्येष्ठाकनिष्ठात्यभेदेन द्वादश भेदा भवन्ति ! भुः त्वेकरू पैत्र । ज्येष्ठाकनिछे । यथामम्शतके... 'दृष्ट्वैकासनसंस्थिते प्रियतम पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्री डानुबन्धच्छन्दः । ईपद्वक्रितकन्धरः सपुलकः प्रेमोलसन्मानसा- तहासलसकपोलफलको धूनोऽपरां चुम्बति ।' न बानगोलिगण्यप्रेमभ्यामेव व्यवहारः । अपि तु प्रेम्णापि । यथा तत्तथोक्तं द1ि1रे । एषां च धीरमध्या-अधीरमध्या-धीराधीरम- ध्या-धीरप्रगल्भा अधीरप्रगल्भा-धीराधीरप्रगल्भाभेदानां प्रत्येकं ज्येष्ठायनि- छाभदाहादशानां वासवदत्ता-रत्नावलीवाबन्धनायिकानामुदाहरणानि महान विप्रबन्धेवनुसर्तव्यानि । अथान्यत्री- अन्यस्त्री कन्यकोढा च नान्योढाङ्गिरसे कचित् ॥ २० ॥ कन्यानुरागमिच्छातः कुर्यादङ्गाङ्गिसंश्रयम् । नायकान्तरसंबन्धिन्यन्योढा । यथा- 'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मिन्गृहे दास्यति प्रायेणास्य शिशोः पिता न विरमाः कौपीरपः पाम्यति । एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुल नीरन्ध्रास्तनुमालिखन्तु जरटच्छेदानलग्रन्थयः ॥' १. 'अन्विच्छन्' इति पाठः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/८१&oldid=218321" इत्यस्माद् प्रतिप्राप्तम्