एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके व्यवधानेनासत्तिरिति नियन्तुं शक्यम् । न चाविदितप्रियव्यलीकायाः ख - ण्डितात्वं नापि प्रवृत्तरतिभोगेच्छायाः प्रोषितप्रियात्वं स्वयमगमनानायकं प्रत्यायोजकत्वान्नाभिसारिकात्वम् । एवमुत्कण्ठिताप्यन्यैव पूर्वाभ्यः । औचित्यप्राप्तप्रियागमनसमयातिवृत्तिविधुरा न वासकसज्जा । तथा विप्रल- धापि वासकसज्जावदन्यैव पूर्वाभ्यः । उक्त्वा नायात इति प्रतारणानि- क्याच वासकसजोत्कण्ठितयोः पृथक् । कलहान्तरिता तु यद्यपि विदित- व्यलीका तथाप्यगृहीतप्रियानुनया पश्चात्तापप्रकाशितप्रसादा पृथगेव ख- ण्डितायाः । तस्थितमेतदष्टाववस्था इति । तत्र-- आसन्नायत्तरमणा हृष्टा स्वाधीनभरीका। यथा--- 'मा गर्वमुबह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति । अन्यापि किं न सखि माजनमीशानां वैरी न चेद्भवति वेपथुरन्तरायः ।। अथ वासकसज्जा-- मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये ॥ २४ ॥ स्वमात्मानं वेश्म च हर्षेण भूषयत्येप्यति प्रिये । वासकसजा यथा- 'निजपाणिपल्लवतटसवलनादभिनासिकाविवरमुत्पतितैः । अपरा परीक्ष्य शनकैर्मुमुदे सुग्ववासमास्यकमलश्वसनैः ।।" अथ विरहोत्कण्ठिता- चिरयत्यव्यलीके तु विरहोत्कण्ठितोन्मनाः । यथा- 'सखि स विजितो वीणावाद्यैः कथाप्यपरस्त्रिया पणितममननाभ्यां तत्र क्षपाललितं ध्रुवम् । कथमितग्था सेफालीषु स्खलत्कुसुमास्वपि प्रसरति नभोमध्येऽपीन्दौ प्रियेण विलम्ब्यते ।।' १. 'विरहोत्कण्ठिता मता' इति पाटः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/८३&oldid=218323" इत्यस्माद् प्रतिप्राप्तम्