एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। य्युपमातृसुता । प्रतिवेशिका प्रतिगृहिणी । लिङ्गिनी भिक्षुक्यादिका । शिल्पिनी चित्रकारादिस्त्री । स्वयं चेति दूतीविशेषा नायकमित्राणां पी- ठमर्दादीनां निसृष्टार्थत्वादिना गुणेन युक्ताः । तथा च मालतीमाधवे काम- न्दकी प्रति- 'शास्त्रेषु निष्ठा सहनश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी । कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुधाः क्रियासु ।' तत्र सखी । यथा- 'मृगशिशुशस्तस्यास्तायं कथं कथयामि ते दहनपतिता दृष्टा मूर्तिमेया न हि वैधवी । इति तु विदितं नारीरूपः स लोकशां सुधा ___ तब शठतया शिल्पोत्कर्षों विधेविघटिष्यते ॥' यथा च- 'संञ्चं जाणइ दहुँ सरिसम्मि जणम्मि जुज्जए राओ। मरउ ण तुम भणिस्म मरणं पि सलाहणिज से ॥' वयं दूती । यथा--- 'मैहु एहि किं णिवालअ हरसि णिअं वाउ नइ वि मे सिचभम् । साहेमि कस्स सुन्दर दूरे गामो अहं एक्का ॥ इत्यागृह्यम् । अथ योषिदलंकाराः- __ यौवने सत्त्वजाः स्त्रीणामलंकारास्तु विंशतिः । यौवने सत्त्वोद्भूता विंशतिरलंकाराः खीणां भवन्ति । तत्र- भावो हावश्च हेला च त्रयस्तत्र शरीरजाः ॥ ३० ॥ शोभा कान्तिश्च दी तिश्च माधुर्य च प्रगल्भता । औदार्य धैर्यमित्येते सप्त भावा अयनजाः ॥ ३१ ॥ १. 'सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः । नियता न त्वां भणिष्यामि मरगमपि श्लाघनीयमस्याः ॥ इति छाया. 'मुहुरेहि किं निवारक हरसि निजं वायो यद्यपि मे सिचयम् । साधयामि कस्य सुन्दर दूरे ग्रामोऽहमेका ॥ इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/८६&oldid=218326" इत्यस्माद् प्रतिप्राप्तम्