एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके तत्र भावहावहेलास्त्रयोऽङ्गजाः । शोभा कान्तिदीप्तिर्माधुर्य प्रागल्भ्यमौ- दार्य धैर्यमित्ययत्न नाः सप्त । लीला विलासी विच्छित्तिविभ्रमः किलकिश्चितम् । मोहायितं कुट्टमितं विब्बोको ललितं तथा ॥ ३२ ॥ विहृतं चेति विज्ञेया दश भावाः खभावजाः । तानेर निर्दिशति- निर्विकारात्मकात्सवाद्भावस्तत्राद्यविक्रिया ॥३३॥ तत्र विकारहेतौ सत्यप्यविकारकं सत्त्वम् । यथा कुमारसंभवे- 'श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ।' तस्मादविकाररूपात्सत्त्वाद्यः प्रथमो विकारोऽन्तर्विपरिवर्ती बीजस्योच्छ- नतेव स भावः । यथा- 'दृष्टि: सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवातास्वपि । पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा बाला नूतनयौवनव्यतिकरावष्टम्यमाना शनैः ॥' यथा वा कुमारसंभवे- 'हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥" यथा वा ममैव- "तं चिअ वअणं ते चेअ लोअणे नोव्वणं पि तं वेज। अण्णा अणङ्गालच्छी अण्णं चिअ कि पि साहेइ ॥' अथ हाव:- होकसस्तु शृङ्गारो हावोऽतिविकारकृत् । प्रतिनियताङ्गविकारकारी शृङ्गारः स्वभावविशेषो हावः । यथा ममैव- १. 'तदेव वचनं ते बंद लोचने पौवनमपि तदेव । अन्यानलक्ष्मीरन्यदेव किमपि साधयति ।।' इति च्छाया. २. 'अल्पालाप:' इति पाठ:.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/८७&oldid=218327" इत्यस्माद् प्रतिप्राप्तम्