एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ द्वितीयः प्रकाशः। 'ज' किं पि पेच्छमाणं भणमाणं रे जहा तह चेन। णिज्झा णेहमुद्धं अस्स मुद्धं णिअच्छेहि ॥' अथ हेला----- स एव हेला सुव्यक्तशृङ्गाररससूचिका ॥ ३४॥ हाव एव स्पष्टभूयोविकारत्वात्सुव्यक्तशृङ्गाररससूचको हेला । यथा ममैव--- 'तेह झत्ति से पअत्ता सव्वङ्गं विन्भमा थणुभेए । संसइअबालभावा होइ चिरं जह सहीणं पि ॥ अधायनजाः सप्त । तत्र शोभा-- रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् । यथा कुमारसंभवे- 'नां प्राङ्मुखीं तत्र निवेश्य बाला क्षणं व्यलम्बन्त पुरो निषण्णाः । भूनार्थशोभाहियमाणनेत्राः प्रसाधने संनिहिलेऽपि नार्यः ॥' इत्यादि । यथा च शाकुन्तले-- 'अनाघ्रात पुष्पं किसलयमलूनं कररुहै- रनाविद्धं रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्यानां फलमिव च तद्रूपमनचं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ।।' अथ कान्तिः -- मन्मथावापितच्छाया सैच कान्तिरिति स्मृता ॥ ३५ ॥ शोभैव रागावतारघनीकृता कान्तिः । यथा- 'उन्मीलद्वदनेन्दुदीप्तिविसरैटूरे समुत्सारितं भिन्नं पीनकुचस्थलस्य च रुचा हस्तप्रभाभिर्हतम् । १. 'यक्किमपि प्रेक्षमाणां भणमानां रे यथा तथैव । निर्धाय खेहमुग्धां वयस्य मुग्धां पश्य ॥ इति च्छाया. २. 'तथा झटित्यस्याः प्रवृत्ताः सर्वाङ्ग विभ्रमाः स्तनो दे। संशयितबालभावा भवति चिरं यथा सखीनामपि ।। इति छाया. ३. 'मन्मथाध्यासित' इति पाठः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/८८&oldid=218328" इत्यस्माद् प्रतिप्राप्तम्