एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। यथा वा---'भ्रूभङ्गे सहसोद्गता' इत्यादि । अथ धैर्यम्- चापलाविहता धैर्य चित्तिरविकत्थना । चापलानुपहता मनोवृत्तिरात्मगुणानामनाख्यायिका धैर्यमिति । यथा मालतीमाधवे-- 'ज्वलनु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किंवा मृत्योः परेण विधास्पति । मम तु दयितः श्लाव्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं मनो न च जीवितम् ॥ अथ स्वाभाविका दश । तत्र- मियानुकरणं लीला मधुरामविचेष्टितैः ॥ ३७ ।। प्रियकृतानां वाग्वेषवेष्टानां शृङ्गारिणीनामङ्गनाभिरनुकरणं लीला । यथा ममैव- 'तह दिदं तह भणि ताए णिअदं तहा तहा सीणम् । अवलोइभं सइण्हं सविब्ममं जह सवत्तीहिं ।' यथा वा-'तेनोदितं वदति याति तथा यथामौ' इत्यादि । अथ विलास:----- तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु । दयितावलोकनादिकालेऽङ्गे क्रियायां वचने च सातिशयविशेषोत्पत्ति- विलासः । यथा मालतीमाधवे---- 'अत्रान्तरे किमपि वाग्विभवातिवृत्त- वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भरिसात्विकविकारविशेषरम्य- माचार्य विजयि मान्मथमाविरासीत् ॥ १. 'तथा दृष्टे तथा भणितं तया नियतं तथा तथा शीणम् । . अवलोकितं सतृष्णं सविभ्रमं यथा सपनीभिः ।' इति च्छाया. २. 'कियोक्तिषु' इति पाठः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/९०&oldid=218330" इत्यस्माद् प्रतिप्राप्तम्