एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके यथा ममैव-- 'सभ्रूभङ्गं करकिसलयावर्तनरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याश्चलेन । विन्यस्यन्ती चरणकमले लीलया स्वैरयात- निःसंगीतं प्रथमवयसा नर्तिता पङ्कनाक्षी ॥' अथ विहृतम्--- पातकालं न यस्याद्रीडया विहृतं हि तत् । प्राप्तावसरस्यापि वाक्यस्य लज्जया यदवचनं तद्विहृतम् । यथा--- 'पादाङ्गुष्ठेन भूमि किसलयरुचिना सापदेशं लिखन्ती भूयो भूयः क्षिपन्ती मयि सितशबले लोचने लोलतारे । वक्रं हीनम्रमीपत्स्फुरदधरपुटं वाक्यगर्भ दधाना यन्मां नोवाच किंचित्स्थितमपि हृदये मानसं तहुनोति ॥' अथ नेतुः कार्यान्तरसहायानाह- मत्री वं वोभयं वापि सखा तस्यार्थचिन्तने ॥ ४२ ॥ तस्य नेतुरर्थचिन्तायां तन्त्रावापादिलक्षणायां मन्त्री वात्मा वोभयं वा सहायः । तत्र विभागमाह-- मविणा ललितः शेषा मत्रिस्वायत्तसिद्धयः। उक्तलक्षणो ललितो नेता मच्यायत्तसिद्धिः । शेषा धीरोदात्तादयः । अनियमेन मन्त्रिणा खेन वोभयेन वाङ्गीकृतसिद्धय इति । धर्मसहायास्तु-- ऋत्विक्पुरोहितौ धर्मे तपस्विब्रह्मवादिनः ॥ ४३ ॥ ब्रह्म वेदस्तं वदन्ति व्याचक्षते वा तच्छीला ब्रह्मवादिनः । आत्मज्ञा- निनो वा। शेषाः प्रतीताः । दुष्टदमनं दण्डः । तत्सहायास्तु- __ मुहत्कुमाराटविका दण्डे सामन्तसैनिकाः । स्पष्टम् । एवं तत्तत्कार्यान्तरेषु सहायान्तराणि योज्यानि । यदाह-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/९१&oldid=218331" इत्यस्माद् प्रतिप्राप्तम्