एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः । अन्तःपुरे वर्षवराः किराता मकवामनाः ॥ ४४ ॥ म्लेच्छाभीरशकाराद्याः स्वस्खकार्योपयोगिनः । शकारो राज्ञः श्यालो हीनजातिः । विशेषान्तरमाह- ज्येष्ठमध्याधमत्वेन सर्वेषां च त्रिरूपता ॥ ४५ ॥ तारतम्याद्यथोक्तानां गुणानां चोत्तमादिता । एवं प्रागुनानां नायकनायिकादूतदूतीमन्त्रिपुरोहितादीनामुत्तममध्यमा- धमभावेन त्रिरूपता। उत्तमादिभावन न गुणसंख्योपचयापचयेन किं त- हि गुणातिशयतारतम्येन । एवं नाट्ये विधातव्यो नायकः सपरिच्छदः ॥ ४६॥ उक्तो नायकः । तद्वयापारम्तून्यते-- तद्वन्यापारामिका वृत्तिश्चतुर्धा तत्र कैशिकी । __ गीतनृत्यविलासाधैम॒दुः शृङ्गारचेष्टितैः ॥ ४७ ॥ प्रवृत्तिरूपो नेतृव्यापारस्वभावो वृत्तिः । सा च कैशिकी-सात्वती-आर- घटी-भारतीभेदाच्चतुर्विधा। तासां गीतनृत्यविलासकामोपभोगायपलक्ष्यमाणो मृदुः शृङ्गारी कामफलावच्छिन्नो व्यापारः कैशिकी । सा तु-- नर्मतस्फिञ्जतत्स्फोटतद्गर्भश्चतुरङ्गिका । तदित्यनेन सर्वत्र नर्म परामृश्यते । तत्र- वैदग्भ्यक्रीडितं नर्म मियोपच्छन्दनात्मकम् ॥४८॥ हास्येनैव सशृङ्गारभयेन विहितं त्रिया । आत्मोपक्षेपसंभोगमानैः शृङ्गार्यपि त्रिधा ॥ ४९ ॥ शुद्धमङ्गं भयं द्वेषा त्रेधा वाग्वेषचेष्टितैः । सर्व सहास्यमित्येवं नाष्टादशधोदितम् ॥ ५० ॥ अग्राम्य इष्टजनावर्जनरूपः परिहासो नर्म । तच्च शुद्धहास्येन सशृङ्गार- १. 'सपरिप्रहः' इति पाठः. २. 'स्फ' इति पाठः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/९२&oldid=218332" इत्यस्माद् प्रतिप्राप्तम्