एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३ द्वितीयः प्रकाशः। शृङ्गाराङ्ग भयनम । यथा ममैव- 'अभिव्यक्तालीकः सकलविफलोपायविभव- श्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भनिपुणम् । इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा कृताश्लेषं धूतः म्मितमधुरमालिङ्गति वधूम् ॥' अथ नर्मम्फिञ्जः- नर्मस्फिञ्जः सुखारम्भो भयान्तो नवसंगमे। यथा मा दिगिरे संकेते नायकमभिसृतायां नायिकायां नायकः-- 'विसृज सुन्दरि संगमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ।' मालविका-भेट्टा, देवीए भयेण अत्तणो वि पिअं काउं र पारेमि' इत्यादि। अथ नर्मम्फोटः-- नमस्फोटस्तु भावानां सूचितोऽल्परसो लवैः ॥ ५१ ॥ यथा मालतीमाधवे--'मकरन्द:--- गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिक किं वेतत्स्यात्किमन्यदतोऽथ वा। भ्रमति भुवने कन्दर्षाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥' इत्यत्र गमनादिभिर्भावलेशर्माधवस्य मालल्यामनुरागः स्तोकः प्रकाश्यते । अथ नर्मगर्भ:--- छन्ननेत्रप्रतीचारो नर्मगर्भोऽर्थहेतवे । अझैः सहास्यनिहाँस्यैरेभिरेषात्र कैशिकी ॥ ५२ ॥ यथामरुशतके- 'दृष्ट्रकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ५. 'नमस्फङ्गः' इति पाटः. २. 'भतः, देव्या भयेनात्मनोऽपि प्रिये कतु न पारयाम् । इति छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/९४&oldid=218334" इत्यस्माद् प्रतिप्राप्तम्