एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके ईपद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा- मन्तहाँसलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥" यथा प्रियदर्शिकायां गर्भाके वत्सराजवेषसुसंगतास्थाने साक्षाद्वत्सराज- प्रवेशः। अथ सात्वती-~- विशोका सात्वती सत्त्वशौर्यत्यागदयाजवैः । संलापोत्थापकावस्यां साक्षात्यः परिवर्तकः ॥ ५३॥ शोकहीनः सत्त्वशीयेत्यागदयाहषोदिभावोत्तरो नायकव्यापारः सात्वती। तदङ्गानि च संलापोत्थापकसाङ्घात्यपरिवर्तकारख्यानि । तंत्र- संलापको गभीरोक्तिर्नानाभावरसा मिथः । यथा वीरचरिते–'रामः-अयं स यः किल सपरिवारकात्तिकेयविज- यावजितेन भगवता नीललोहितेन परिवत्सरसहस्रान्तेवासिने तुभ्यं प्रसादी- कृतः परशुः । परशुरामः-राम राम दाशरथे, स एवायमाचार्यपादानां प्रियः परशुः । शस्त्रप्रयोगखुरलीकलहे गणानां सैन्यैवतो विजित एव मया कुमारः । एतावतापि परिरभ्य कृतप्रसादः प्रादादमुं प्रियगुणो भगवान्गुरुर्मे ।' इत्यादिनानाप्रकारभावरसेन रामपरशुरामयोरन्योन्यगभीरवचसा संलाप इति । अयोधापक:-- उत्थापकस्तु यत्रादौ युद्धायोत्थापयेत्परम् ॥ ५४॥ यथा वीरचरिते- 'आनन्दाय च विम्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यं नु कुतोऽद्य संप्रति मम त्वदर्शने चक्षुषः । त्वत्सांगत्यसुखस्य नास्मि विषयः किं वा बहुव्याहृते. रस्मिन्विश्रुतजामदग्यविजये बाहौ धनुर्जम्भताम् ॥' अथ साङ्घात्यः-- मन्त्रार्थदेवशक्त्यादेः साङ्घात्यः सङ्घभेदनम् । १. 'रसात्मकः' इति पाठः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/९५&oldid=218335" इत्यस्माद् प्रतिप्राप्तम्