एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रकाशः। मन्त्रशक्त्या । यथा मुद्राराक्षसे राक्षससहायादीनां चाणक्येन खबुद्धया भेदनम् । अर्थशक्त्या तत्रैव । यथा पर्वतकामरणस्य राक्षसहस्तगमनेन मलय- केतुसहोत्थायिभेदनम्। दैवशत्तया तु। यथा रामायणे रामस्य दैवशक्तया रा- वणाद्विभीपणस्य भेद इत्यादि। अथ परिवर्तकः-- पारब्धोत्थानकार्यान्यकरणात्परिवर्तकः ॥ ५५ ॥ प्रस्तुतस्योद्योगकार्यस्य परित्यागेन कार्यान्तरकरणे परिवर्तकः । यथा वीरचरिते- 'हेरम्बदन्तमुसलोल्लिखितैकभित्ति वक्षो विशाखविशिखत्रणलाञ्छनं मे । रोमाञ्चक कितमद्भुतवीरलाभा- यत्सत्यमद्य परिरब्धुमिवेच्छति त्वाम् ॥ रामः---भगवन्, परिरम्भणमिति प्रस्तुतप्रतीपमेतत् ।' इत्यादि । सात्वतीमुपसंहरन्नारभटीलक्षणमाह-- एभिरङ्गश्चतुर्धेयं सात्वत्यारभटी पुनः! मायेन्द्रजालसङ्घामक्रोधोद्धान्तादिचेष्टितैः ॥ ५६ ।। संक्षिप्तिका स्यात्संफेटो वस्तूत्थानावपातने । मायामन्त्रवलेनाविद्यमानवस्तुप्रकाशनम् । तन्त्रबलादिन्द्रजालम् । तत्र- संक्षिप्तवस्तुरचना संक्षिप्तिः शिल्पयोगतः ।। ५७ ।। पूर्वनेतृनिवृत्त्यान्ये नेत्रन्तरपरिग्रहः । मृदंशदलचर्मादिद्रव्ययोगेन वस्तूत्यापनं संक्षिप्तिः । यथोदयन चरिते किलिञ्जहस्तिप्रयोगः । पूर्वनायकावस्थानिवृत्त्यावस्थान्तरपरिग्रहमन्ये संक्षि- प्तिका मन्यन्ते । यथा वालिनिवृत्या सुग्रीवः । यथा च परशुरामस्यौद्धत्य- निवृत्त्या शान्तत्वापादनं 'पुण्या ब्राह्मणजाति:-' इत्यादिना । अथ संफेट:--- संफेटस्तु समाघातः क्रुद्धसंरब्धयोयोः ॥ ५८ ॥ यथा माधवाघोरघण्टयोर्मालतीमाधवे । इन्द्रजिलक्ष्मणयोश्च रामायणप्र- तिबद्धवस्तुषु ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/९६&oldid=218336" इत्यस्माद् प्रतिप्राप्तम्