पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/21

पुटमेतत् सुपुष्टितम्
१८
दिव्यदृष्टिः

मस्थलस्य (रेलवे स्टेशन) स्पष्टं चित्रमवालोकयम्। विशाला धूमशकटी पुरःस्थिताऽस्ति । यात्रिण श्रारोहन्ति, अवरोहन्ति च । भारवाहका इत स्ततो धावन्ति । एकतः पंक्तिशः प्रकोष्ठा दृश्यन्ते । किञ्चिदन्तरं गत्वा पंक्त्यन्तरगामी सेतूरस्ति । किमभिधानमिदं धूमशकटीविश्रामस्थलम् ? अपरिचितमिव प्रतीयते । नूनं न दृष्टपूर्वं मयेदम्, अतो न स्मर्यते । चल- च्चित्रपट इवात्रापि सर्वं स्पष्टं लक्ष्यते ।

 अहं चकित इव भीत इव विक्षिप्त इव च निरुद्धनिःश्वासं यावदिदं दृश्यं पश्यामि, तावदेवैकस्यास्तरुण्याश्चलच्चित्रं पुरः समुपस्थितम् । यथा यथा सा तरुणी पुरः समुपसर्पति, तथा तथा तचित्रं स्पष्टतरं भवति । षोडशहायनावस्थायास्तस्यास्तरुण्याः शरीरे पीतवर्णा महार्घा शाटी, तदु- पंरि सूक्ष्मतरं श्वेतवर्णमुपरिधानीय च विराजते । हंसगतेस्तस्या गमन- सौष्ठवं सौकुमार्यातिशयं पुष्णाति । तस्या वदने विलसन्ती-मुग्धता, विशाले मदिरे च तदीक्षणे, रसाप्लुतः संवर्तिकारुणो बिम्बाधरः, शुकच- ञ्चुनिभा नासा, तप्तकार्तस्वरविजित्वरी देहद्युतिश्च मां सविशेषमाचकर्ष। ईदृशी सुन्दरी न मया दृष्टपूर्वा ऽऽसीत् । दर्शनं तु दूरे ईदशरूपवर्णन मपि न मया कुत्रापि पठितमाकर्णितं च । भूतलवृत्तमवगन्तुमागता काऽपि सुरसुन्दरीव सा प्रतीयतेस्म । अहं तु तदानीं सर्वमप्यन्यत्-तां कुटीं, तं महात्मानं, तत्प्रसादान्मया मृत्तिकाखण्डे दृश्यमानं चित्रं धूम- शकटीविश्रामधामादि सर्वमेकपदे विस्मृत्य तामेव सुन्दरीं पश्यन्नासम् । किमीदृशं सौन्दर्यं मर्त्यलोके सम्भवति ? अथवा महात्मन इच्छाशक्ति- सम्भूता सेयं रूपसम्पत् ? किमेषा ममू भार्याः भवेत् ? किमीदृशं मम सौभाग्यमस्ति ? मम तातेन मदर्थं पूर्वं निश्चितास्तिस्रः कन्याः किला- ऽस्याः पद्धूलितुलनामपि कर्तु नेशते । किं वात्र प्रमाणम्, यदेषा सुन्दरी मया लब्धुं शक्येत । मन्ये विकृतं मे शिरः । अहं किंकर्तव्यविमढ इवं यावात्तं सुन्दरीं पश्यन्नित्थं विचिन्तयामि, तावदेव सहसा सा ऽन्तर्दधे । अहमितस्ततो दत्तदृष्टिस्तामन्वेषयामि यावत्, तावत्स विशालः कुट्टिमः, ते प्रकोष्ठाः सा धूमशकटीत्यादि सकलमपि तद्दृश्यमव्यक्तच्छायं भव- च्छनैः शनैरन्तर्दधे । यथा कश्चिदालेख्यलेखकः स्वयं निर्मितं चित्रमप्री- तिकरं मत्वा श्वेतवर्णतूलिकया तदृशेषं विलोपयति , तथैव तत्सर्वं दृश्य- मन्तर्हितम् अभ्रखण्डानीवेतस्ततो धूमपुञ्जः केवल ददृशे, सोऽपि शनैः शनैरन्तर्हितः, केवलं काचगोलोऽवशिष्टः, निमेषानन्तरं पूर्ववदेव मृत्खण्ड एव दृग्गोचरोऽभूत् ।