पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/24

पुटमेतत् सुपुष्टितम्
२१
दिव्यदृष्टिः

 महात्माऽब्रूत-“मम हि सर्वमप्यनिश्चितमेव, कदाचित् श्व एवेतः प्रस्थास्ये । परन्तु युवाभ्यामितः परमत्र नागन्तव्यम् न चैतर्हि दृष्टस्याद्भुतव्यापारस्य विषये क्वापि चर्चा विधेया । एष वृत्तान्तः परेषां कर्णे गतो न मे रोचेत । श्रुत्वाऽपीत्थंविधं वृत्तमश्रद्धालवः परिहासं वितन्वते । अतो ऽश्रद्धालुभ्यो बाढं गोपनीयोऽयं विषयः । अलम्, सम्प्रति युवां गच्छतम् । मङ्गलमयो महेश्वरो युवयोर्मङ्गलं करोतु । इहागतयोर्युवयोर्भूयान् विलम्बो जातः ।”

 अथ महात्मानं साष्टाङ्गं प्रणम्य आवां कुटीराद्बहिरागच्छाव । स्तोकं मार्गमतिक्रम्य मया मेघश्यामो ऽप्राक्षि-“कथय, सखे ! यत्किञ्चिद् दृष्टं तत्र, तद्विषये कीदृगभिप्रैषि” ?

 मेघश्याम उवाच–“मया तु नैव किमपि दृष्टम्, किमहं कथयेयम् ?”

 मया साश्चर्यमभिहितम्-“अरे ! त्वं परिहससि किम् ? तत् धूमशकटीविश्रामधाम दृश्यम, सा च पीताभां शाटीं वसाना युवतिश्च किं त्वया न दृष्टा ?”

 मेघश्यामो गभीरभावेनावदत्–“सत्यमहं वदामि, अहं तव पार्श्र्व एवोपाविशम् मम तु तस्मिन् मन्दप्रकाशे त्रिपादिकावस्थापितं मृत्खण्डं विहाय नान्यत्किमपि दृक्पथमुपगतम् । त्वमेव कथय, किं त्वया दृष्टम् अहमपि तच्छृणुयाम् । तत्र महात्मनः सन्निधौ त्वां किमपि नाप्राक्षम्”

 मया यद्यत्तत्र समवालोकि, तत्तदशेषं मेघश्यामाय सविस्तरं कथितम् । आकर्ण्य सोऽवदत्-“महात्मन एवायं महिमा, तस्यैव कृपया त्वं तद् द्रष्टुमशक्रोः, त्वयाऽवलोकिते दृश्ये सत्यमेव किं सर्वाण्यपि पात्राणि जीवन्तीव चेष्टमानान्यासन्, अथवा तव केवलं सदृग्भ्रमएवा ऽऽसीत् ?”

 मया सनिर्द्धारमुक्तम्-“सर्वाण्यपि पात्राणि जीवन्ति चेष्टमानानि दृष्टानि नात्र संशयावकाशः । सा तरुणी त्वतीवाश्चर्यारपदमासीत् । अहं हि यावज्जीवं तत्स्वरूपं विस्मर्तुं न शक्ष्यामि । अपूर्वं तत्सौन्दर्यम्, अहं बाढं विचारयन्नपि नावगच्छामि, कथमित्थं मया द्रष्टुमपारेि ? महात्मना च केन बलेन तस्मिन् मृत्खण्डे विचित्रं तन्नाटकं प्रदर्शितम् ? अहं मन्ये, स महात्मा सम्भवतः किंचित् 'मेस्मेरिजम’ नामिकां त्राटकविद्यामपि जानाति, तन्मायायामेवाहमपतम्।”

 मेघश्यामो ऽभ्यधात्–“पुनरारूढा संशयपिशाचिका त्वाम् बलवान् खलु संस्कारः, महात्मनो योगशक्तेरीदृशं लोकातिगं चमत्कारं