पृष्ठम्:देलरामाकथासारः.pdf/२६

पुटमेतत् सुपुष्टितम्
६ सर्गः ।
१९
देलरामाकथासारः।

तद्वस्तुद्वयमपि सर्वमेव सद्यः स्नेहेन स्वसुतयुगाय पूर्वमद्धा ।
दत्त्वा मन्निकटमथागतासि भाण्डं संपूर्णं परखगगात्रतो गृहीत्वा ॥ २ ॥
साकर्ण्योक्तिमिति तमेव मन्यमाना विज्ञानप्रवरमहाधियं तु कंचित् ।
प्रत्याह प्रिय मदसंनिधौ तु ताभ्यां जग्धं तद्वद किमहं करोमि तत्र ॥३॥
सोऽवादीद्यदि दयितेऽधुना ध्रुवं मां जानीषे प्रियतममेव कामुकाग्र्यम् ।
तत्तूर्णं निजतनयौ यथा तथा तौ हन्यास्त्वं युगपदलं निगूढमेव ॥ ४ ॥
उत्पाट्य हृदयमथो तयोः स्वयं तद्वक्षोन्तर्गतविहगीवरास्थियुग्मम् ।
आकृष्य द्रुतमधुना प्रयच्छ मह्यं मन्युर्मे न च परथा प्रशाम्यति द्राक् ॥५॥
 विद्युन्निपातमिव मन्दिरवह्निदाहं
 खड्गप्रहारमिव सागरमज्जनं वा ।
 जारानुरोधवशतः शिशुमारणं हा
 साङ्गीचकार धिगहो वनितानुरागम् ॥६॥
 श्रुत्वेत्यथाभ्युपगमं नितरां प्रतुष्टो
 दुष्टो वणिक्सपदि तां दृढमालिलिङ्ग ।
 गेहे निजे द्रविणभूरितरव्ययेन
 प्रोच्चैस्तदा वरमहोत्सवमादिदेश ॥ ७ ॥
 आनीय सोऽन्तिकमहो विविधं प्रभूतं
 पक्वान्नहारिमदिरादियथेष्टभोज्यम् ।
 आरोप्य तां निबिडरागहृतां निजाङ्के
 प्रीतां परामनुबभूव रतादिभोगैः ॥ ८॥
 आलिङ्गय तां निबिडमेव नरेन्द्रपत्नी
 भोगान्सुदुर्लभतरांश्च पुरो निरीक्ष्य ।
 आखण्डलं च मदनं धनदं तदानी-
 मात्मानमेव स विवेद वणिक्प्रमोदात् ॥९॥
 कृत्वा क्षणं तदधरामृतपानलीलां
 स प्रोद्गतप्रमदजातनितान्तदर्पः ।