साचिन्तयद्भुवमसौ गुणवान्महात्मा
कोऽपि प्रभूतमहिमा हिमरश्मिधामा ।
प्रायो मया कपटतः परिवञ्चितोऽयं
तत्किं चिकीर्षति रुषाद्य न वेद्मि हन्त ॥ २५॥
उल्लङ्घयवारिनिधिमेष मुहूर्तमात्रा-
त्प्राप्तोऽधुनैव हनुमानिव रंहसान्यः ।
कुत्र व्रजामि तदितो निजहर्म्यपृष्ठा-
दृष्टा सरोषममुना च बताहमद्धा ॥ २६ ॥
किं चाधुना मम विधिः शरणं भयेऽस्मि-
न्यत्तन्ममास्तु निजकर्म हि कः प्रमार्ष्टि ।
एतत्समीपमपि सान्त्वयितुं व्रजामि
जानामि नापरमुपायमलं विचार्य ॥ २७ ॥
ध्यात्वेति सा निकटमस्य तु मन्दमन्दं
गन्तुं स्वकीयपरिवारजनैरदृष्टा ।
एकाकिनी विपुलसाध्वसकम्पमाना
वातायनादवततार ततस्तदानीम् ॥ २८॥
यान्ती प्रभूतभयतस्तु शनैः शनैः सा
दूराद्ददर्श सरुषं नरनाथसूनुम् ।
गत्वा ततस्त्रिचतुरेषु पदेषु भूमौ
विन्यस्य जानुयुगलं प्रणनाम चाग्रे ॥ २९ ॥
सोऽप्यग्रतः सविनयां प्रणतोत्तमाङ्गां
प्रक्षिप्तजानुयुगलां गलदश्रुधाराम् ।
उत्तुङ्गपीनकुचकुम्भनिवेशितस्व
पाणिद्वयामतिभयामथ तामपश्यत् ॥ ३० ॥
कोपाकुलः स सहसा नरनाथसूनु-
रुत्थाय तां भुजयुगेन हठान्निरुध्य ।
पृष्ठम्:देलरामाकथासारः.pdf/५३
पुटमेतत् सुपुष्टितम्
४६
काव्यमाला।