पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रभृतिभिरुच्चस्थै राजानो नृपवंशजाः । चतुरादिभिरन्येषि त्रिकोणोपगतैस्तथा ॥ ३८ ॥ एकादिभिररिक्षेत्रे गतैनींचगतैरपि । दारिद्रो दुःखितो मूर्खो व्याधितो बन्धनान्वितः ॥३९॥ अभितो वधं प्राप्तः क्रमाज्जातो भवेन्नरः । एकोपि परमोच्चस्थः सुहृद्दृष्टो नृपत्वदः ॥ ४० ॥ व्यादिभिर्वलिभिःकेन्द्रे गते नृपसुतो नृपः । वर्गोत्तमस्थिते चन्द्रे चतुरादिभिरीक्षिते ॥ ४१ ॥ भवसन्योऽपि नृपतिः किमुत क्षत्रियोद्भवः । वर्गोत्तमांशे लग्नस्य चतुरादिभिरीक्षिते ॥ ४२ ॥ तदापे क्षत्रियो द्राभ्यां योगाभ्यां नृपराट् भवेत् । ऋक्षसन्धिषु सञ्चातो न चिरञ्जीवति ध्रुवम् ॥ ४३ ॥ यदि जीवेत्तदा रुग्नो वाहनाद्यैः समृध्यति । वर्गोत्तमगताः क्रूराः शुभगाश्च गुणोतराः ॥ ४४ ॥ वर्गोत्तमं नरं कूर्ग्युर्यवनेश्वरदर्शने | सर्वेश्वरादिनिलयैस्त्रय आश्रयोत्था || रज्जुःक्रमेण मुसलच नलस्तृतीयः | इर्ष्यान्वितः प्रचुरमानयुतो धनाढ्यः सर्वेऽपि ते स्वकुलगोत्रजने प्रसिद्धाः ॥ ४५ ॥ त्रिकोणगैर्यमारीकैः सप्प दुःखितजन्मदः । देलयोगस्तथा जीवसितज्ञैर्भोगिजन्मदः ॥ ४६ ।। अष्टादशाकृतिः प्राप्ता गदानन्तर केन्द्रगैः | तत्र जातो भवेद्यज्वा धनवानर्थलालसः ॥ ४७ ॥ विलग्नास्तगतैः सर्वैः शकटो योग इप्यते । १ दलयोआतथा ॥ २ अादसकिति ॥ २३