पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १०७ ) द्विधा, विभिन्ना द्विपकुम्भतुल्यं शिरोभवेदन्यबघूरतानाम् ॥ ३ ॥ शतायुषः पञ्च भवन्ति खण्डा रेखाललाटेषु ततः क्रमेण । ऊनं पुनर्विंशतिवत्सराणां मसेकमायुर्मनुजेषु कुर्य्यात् ॥ ४ ॥ ऋज्वी भवेत् क्रूरतरात्मनो भ्रू- ररोमशा लोभवतो नरस्य । ओष्ठौ तु मध्ये ऽपचितौ सुरक्तौ सुखेन दन्तावरणौ प्रशस्तौ ॥ ५ ॥ दृष्टिस्तु पक्ष्मलपुटापरदारसक्ता माकेकरापिशुनमक्ष मर्मज्जुनश्रीः | सङ्ग्रामशूरमरुणा सदयञ्च नीला पिङ्गा तु दुष्टमनसः खलु बुद्बुदाभा ॥ ६ ॥ आपीनगण्डौ धनिनं दधाते मिथ्यावचःसक्तमरोमसौ तौ । कण्ठोऽतिदीर्घः कृपणो धनाढ्यः सुसङ्गतो ह्रस्वतरश्चं निःस्वः ॥ ७ ॥ जिह्वा करोति विपुला सुधियं कृशा तु मूर्ख दृढार्थपरधीः मुखितञ्च मृद्री | नासाश्रियं वितनुते शुकतुण्डतुल्या भूरिव्ययत्र किपटा चिरजीवितञ्च ॥ ८ ॥ आसुश्रवा भवति वाङ्मयपारदृष्टो दीर्घायुषो भवति रोमसकर्णपाली । १ निखम् ॥ २ सुवणश्च ॥