पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८० ) सयष्टिसैन्धवं वालं मातमैधाकरं लिहेत् ॥ १२ ॥ इति जातकर्मविधिः । .000- अथ जातदिने वत्सं गृही गृह्णाति पद्मिनी गात्रोद्वेगा निराहारा लालाग्रीवाविवर्त्तनम् ॥ १३ ॥ तच्चेष्टितमिदन्तस्य मन्त्राणाञ्च वलिं हरेत् । मत्स्यमांससुराभक्तगन्धस्रग्दीपधूपितैः ॥ १४ ॥ लिम्पेत्तद्वनकीलोध्र मञ्जिष्टातालचन्दनैः । महिषाक्षेण धूपश्च द्विरात्रे भीषणी ग्रही ॥ १५ ॥ तच्चेष्टाकाशनिःस्वासौ गात्रसङ्कोचनं मुहुः | साजमूत्रैर्लिपेत्कृष्णा सेव्यापामार्गचन्दनैः ॥ १६ ॥ गोशुद्रदन्तकेशैस्तु धूपयेत्पूर्व्ववद्वलिम् । ग्रही त्रिरात्रे घण्टाली तचेष्टाक्रन्दनं मुहुः ॥ १७ ॥ जृम्भनं स्तनितत्रासो गात्रोद्वेगमरोचकम् । केशराञ्जनगोहस्तिदन्तसाजपयो लिपेत् ॥ १८ ॥ नखराज निम्बदलैर्धूपयेच वलिं हरेत् । ग्रही चतुर्थी काकोली गात्रोद्रेगः मरोदनम् ॥ फेणोद्गारो दिशादृष्टिं कुल्मापैः सर्पपैर्वलिः ॥ १९ ॥ गजदन्ताहिनिर्मोकावाजीमूत्रैः मलेप्रयेत् । मटुकारितु ग्रही षष्टी त्रासो मोहमरोदनम् ॥ २० ॥ निराहारोऽङ्गविक्षेपो हरोन्मत्सादिकावलिम् । राजीगुग्गुलुकुष्टेभदन्ताज्यैर्धूपलेपने ॥ २१ ॥ मुक्तकेशी ग्रही वालं दिने गृह्णाति सप्तमे । १ क २ | सासपैर्बलिः ।