पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६० ) अङ्कोलस्येशदिङ्मूलं क्षीरेण सह पाययेत् । घोराणामप्यलर्कानां विषं सद्यो विनश्यति ॥ १२५ ॥ यष्ट्यश्वगन्धया चैत्र जतुना गरकेन च । गृता क्षीरयवागुस्तु रुधिराश्रवनाशिनी ॥ १२६ ॥ पिष्फली भद्रमुस्ता च रोहिणी विश्वभेषजम् । एतत् प्रशमनं दद्याद्विपसुतमबोधनम् || १२७ ॥ इति स्थावरविषचिकित्सा | -::- इति विषद्धंसविधिः ॥ -:0: - आधाने जन्मनक्षत्रे चन्द्रे बाष्टमराशिगे । आमयो यदि जायेत क्लेशाय मरणाय सः ॥ १२८ ॥ पुण्यार्क विष्णुदश्राब्धिपौष्णब्रह्मादितीन्दवः | भौमार्कयोश्च बाराद्याः सर्व्व भैषज्यसम्मताः ॥ १.२९ ।। सर्व्वरोगमतीका रेष्वधोमुखदिनोदये । विधेयं शशिनो वारे स्वानुकूलं विरेचनम् ॥ १३० ॥ गुडसिक्त विवृद्विश्वः शैन्धवांशरजोयुतः । त्रित् क्काथःलताकाथः सगुडःस्याद्विरेचकः ॥ १३१ ॥ द्राक्षाकाथस्त्रिवत् खण्डगुडयुक्तश्च रेचकः । विदध्याद्वमनं धीमान् प्रशस्तोऽर्द्धदिनोदये || १३२ ॥ फकराठा कषायोत्थं पयोत्रमनकृद्भवेत् । शस्तौ कोशातकीक्ष्वाकू वमने राठवीजवत् ॥ १३३ ॥ आद्यान्तब्रह्म हस्तेन्दुजीववारुणभेषु च । जीवार्कयोश्च वाराद्ये हिता चक्षुःप्रतिक्रिया ॥ १३४ ॥