पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ] स च महास्थविरवरः सकलेषु वेदवेदाङ्गादिषु च न्यायालङ्कृतिस्मृ- तिप्रभृतिशास्त्रेषु च चतुःषष्ठिकलासु च पारदर्शी जिनवरप्रणीतेषु परमो- त्कृष्टेषु सुत्राभिधर्म्मविनयसङ्ख्यातेषु त्रिषु पिटकेषु च विशेषदर्शी विबुधा- ग्रणी: सज्जनपरिजननिसेवितचरणयुगलो वशीकृतेन्द्रियः शान्तो दान्तो गुणवान् शीलवांश्चाऽभूत् । स चाऽयं महास्थविरवरो राज्ञा पण्डितपराक्र- मबाहुना सकलेऽपिलङ्कादीपे सङ्घराजधुरि नियुक्तः सन् सुतरां सगौरव सबहुमानपुरःसरं चतुर्भिःप्रत्ययैः सर्व्वदा सङ्ग्रहीतः समानितश्च । स हि सङ्घराजवरो लोकोपकृति कर्तुकामःसन् गर्गपराशस्त्रशिष्ठभोजमणित्थवादरा- यणप्रह्लादनवृहस्पतिव्याससुबोधसारस्वत विष्णुगुप्तवराहमिहिरादीनां पूर्वी- याणां निर्मलबुद्धीनां महाशपानां मतांच पीकिशरोमकवाशिष्ठसौरपै- तामहादीनां परमाद्भुतानां सिद्धान्तानां क्रमांश्चानुगम्य मधुरकोमलपदात्र- कीभिमां दैवज्ञकामधेनुं नात्यल्पां नातिविस्तरामुद्ग्रहणधारणसुकरां कृत्वा एतत्कालीयानां गणकानां देवचिन्तकनाञ्च हितार्थसाधनाय निरमीसात् || अनेन श्रीमता अनत्रमदर्शिना सङ्घराजवरेणा ऽपि अस्याः प्रारम्भे,- " प्राच्यैर्वराहमिहिरादिभिरम्ययायी " ति वचनात् ज्योतिःशास्त्रे विख्या- तकीत्तिमतेर्वराहमिहिराचार्य्यस्य मतान्येव अस्यां दैवज्ञकामधेन्वां प्रायः स्त्रीकृतानीत्यवगम्यते । तथा होराफलप्रदर्शेने अपि व्यासभोजमतानि चा. तस्मादेषा सवैज्योतिर्विद्भिः सम्भावनीया । एतत्कालीयानां नानातन्त्रा- वलोकने विरलोत्साहानां मन्दबुद्धीनां दैवचिन्तकानां स्वल्पेन कालेन अनायासेन उजोतिरशास्त्रमहार्णवं तीर्त्वा यथेप्सितार्थसियै एमा दैवज्ञका- मधेनुः क्षुद्रनौकावद्भवति । अत एषा जयश्रीयशः कामैर्दैवचिन्तकैः सादरं सततं भावनीया । एषा दैवज्ञकामधेनुस्त्रिंशदध्यायैरन्विता । तेष्वे- वाध्यायेषु यानि यानि निर्दिष्टानि तानि सर्व्वाणि चिह्नद्वारेण संज्ञापूर्वकं कृत्वा अत्रैवानुक्रमणिकायां पृथक् पृथक् सन्दर्शितानि । तानि तत्रा गतानुसारेणैव अवगन्तव्यानि ॥