पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

d तदप्यद्वकृतं गोलविलोमात् प्रथमस्फुटे । योजयेच्छोधयेद्वासौ द्वितयोच्चदले स्फुटः ॥ ७ ॥ ततो ध्रुवोच्चमुट्टस ध्रुवाज्ज्याफलमानयेत् । अनधीतं यथागोलं विदध्यात्तस्य मध्यमे ॥ ८ ॥ अयं तृतीयः सकलः ध्रुवस्फुट उदाहृतः । तञ्चलोच्चात् समुद्धृय पादज्ज्याभिर्भुजाफलम् ॥ ९ ॥ आनीय सकलं तच्च गोलक्रमविलोमतः । योजयेच्छोधयेच्चाथ तृतीयस्फुटमध्यमे ॥ १० ॥ अयं चतुर्थः सकलस्तुङ्ग स्फुट उदाहृतः । अनेनैव यथाविद्यात्तदवशिष्टस्फुटक्रियाम् ॥ ११ ॥ ध्रुवार्द्धस्फुटशून्यत्वात् त्रिस्फुटौ बुधभार्गवौ । । तयोर्हि मध्यमं विद्यात् प्रथमार्द्धध्रुवस्फुटम् ॥ १२ ॥ ध्रुवोच्चानि कलादीनि सर्व्वेषामेव शोधयेत् । सर्व्वत्र तुङ्गविश्लिष्टं मध्यमं केन्द्रमादिशेत् ॥ १३ ॥ रुधिर, ध्रुवका, किमसै, स्तुलसी । नतथा, नयता, गुरवो, जुनकाः ॥ १४ ॥ आद्यन्तपाद्योभौंमै रत्नचैत्येन साश्रयः । शखामध्येहिमे चायुस्सार्थलोको यशःप्रियः ॥ १५ ॥ कुजमध्यो गुरुस्सक्तो जातजालो धनी धनम् । दाधिकक्षम शेपीत नृपतेः शोधयेत्तूयम् ॥ १६ ॥ तृतीयस्फुटसंसिद्धो वर्त्तमानगुणम्बुधः । . मध्यभोगेन गुणयेदृर्णनाभेन भाजयेत् ॥ १७ ॥ लब्धमध्यमभोगस्यं शोध्यमाद्यन्तपादयोः । मध्ययोः पादयोरेवं ध्रुवभुक्तिरियं मता ॥ १८ ॥ १ भोगेस्व |