पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७२ ) अतःपरं प्रवक्ष्यामि रहस्यं ज्योतिषागमे । आयुद्दीयविधानं हि सारं मुनिमतान्तरे ॥ १ ॥ असन्निधौ जन्मपितुश्शशाङ्के सितज्ञयोर्मध्यगतेऽथ केन्द्रे । होरामपश्यत्युदये शनौ वा लग्नात्कुजे वा यदि सप्तमस्थे ॥ २ ॥ सार्कःशशी भवति पापयुतोऽथवापि जीवो न लग्नमापे पश्यति नापि चन्द्रम् | सार्क शशाङ्कमपि पश्यति नैव जीवो. जातःपरं भवति जारसुतः तदानीम् ॥ ३ ॥ गुरुक्षेत्रगते चन्द्रे तद्युक्ते चान्यराशिगे । तद्द्रेष्काणे तदंशे वा नोपरैर्जात इष्यते ॥ ४ ॥ लग्ने यो द्वादशांशः स्यात्तदिग्दारं गृहम्भवेत् । तदीशदिङ्मुखं चापि मणित्थाचार्थ्यसम्मतम् ॥ ५ ॥ बिलग्नराशिसिद्धा वा ककुष्केन्द्र स्थितस्य वा । बलिनो वा भवेदासां द्वारे जननसद्मनः ॥ ६ ॥ लग्नात् पष्ठाष्टमो वापि चन्द्रःपापनिरीक्षितः । अर्द्धगातिका शुद्धे मृत्युमद्धा प्रयच्छति ॥ ७ ॥ स एव शुभदृष्टश्चे दष्टाव्दे मृत्युदो मतः । दृष्टःसद्भिरसद्भिश्च तदर्द्धाब्दे करोति तत् ॥ ८ ॥ पष्ठाष्टमगतश्चन्द्रो न सधैर्वा निरीक्ष्यते । (सौम्ययुक्तोऽथवा सौम्य क्षेत्रगोवान मृत्युकृत् ॥ ९ ॥ पक्षे सिते भवति जन्म यदि क्षपायां कृष्णेऽथवाऽहनि शुभाशुभवीक्षितोऽपि । तच्चन्द्रमा रिपुविनाशगतोऽपि यत्ना दापत्सु रक्षति पितैव शिशुं निहन्ति ॥ १० ॥ १ परे ।