पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१०४

पुटमेतत् सुपुष्टितम्
७९
पुरुषकारोपेतम् ।

  'शार कृप श्रथ दौर्बल्ये '। कथादयः । श्रथ प्रयत्ने । इति मैत्रेयरक्षितः। प्रतिहर्ष इति बहवः । 'श्रथ मोक्षणे' । 'श्रथ हिंसायाम्' इत्यपरे । तथा च 'श्रथ क्रथ हिसु हिंसायाम्' इति शाकटायनः। श्रन्थ ग्रन्थ सन्दर्भे' । 'श्रन्थ विमोचनप्रतिहर्षयोः । ये तु 'श्रन्थ ग्रन्थ सन्दर्भ' इत्यपि ऋयादौ पठन्ति, तथा च 'सन्दर्भ श्रन्थनक्रियायां श्रन्थग्रन्थधातू वर्तेते' इति क्षीरस्वामी; तेषां सन्दर्भ इत्येतद्यथाश्रुतं श्रन्थातीत्यनेनैव सम्बन्धनीयम् । वा णौ इत्यनेनैव पूर्वधातोरवच्छेदः' सिद्धः। श्रथि शैथिल्ये ॥

  ऽथ पथेर्गतौ पथति णौ पन्थेर्गतौ पन्थयेत्॥१०१॥

  पथे गतौ' । एवं च ‘पथेर्गतौ' इत्यत्रापि काममस्यैवैका- रस्य पूर्वरूपम् । तत्फलं पुनरपथीदित्यत्र ‘ह्मयन्तक्षणश्वसजागृ- णिश्व्येदिताम्' (७-२-५) इति वृद्यभावसंसूचनं । 'पथि गतौ ॥

 क्लिन्दते क्लिन्दतीत्येवमिदितः परिदेवने ।
 क्लिद्यतीत्याभावेऽर्थे क्लिदेः श्यन्यूदितो भवेत्॥१०२ ॥

  क्लिदि परिदेवने । अकर्त्राभिप्राये कर्त्राभिप्राये च क्रिया- फले द्वैरुप्यार्थो द्विष्पाठः । एवञ्च 'इदितोः परिदेवन' इति प- ठितुं युक्तम् । 'क्लिदू आर्द्रिभावे' । ऊदित्त्वफलं तु क्लेत्ता क्लेदिता


१. दन्त्यादित्वेनापि पाठो दृश्यते. २. पाठेऽस्मिन्नरुचिस्तु रूपभेदाभावेन विमोचनप्रतिहर्षाभ्यां सहैव सन्दर्भग्रइणे कार्ये पृथक् पाठो न कर्तव्य इति । अत एव 'ग्रन्थ सन्दर्भ' इत्येव तत्प्रसक्तावुक्तम् . ३. 'ङसिङसोश्च' (६-१-११०) इति. ४. एकारान्तानुकरणफलम् . ५. एक एव धातुः पदद्वयवानुदाहृत इति भ्रमानुत्पादायेति शेषः.


+'दासद्धे' इति गपुस्तके पाठः.