पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/११५

पुटमेतत् सुपुष्टितम्
९०
दैवं

 छेदने पूरणे चार्थे वर्धेर्वर्धयतीति णौ ॥ १२३॥
 तदेव रूपं भाषार्थे वृधेवृद्धौ तु वर्धते।।

  'वर्ध च्छेदनपूरणयोः' । वृधु भाषार्थः । 'वृधु वृद्धौ'। अनुदात्तेत् ॥

 याचने वनुते शब्दे सम्भक्तौ च वनेदिति ॥ १२४ ॥
 क्रियासामान्यवृत्तेश्च तदेव स्यात् पदं मितः ।

  'वनु याचने'। तनादिः । 'वनोति वनुतः वन्वन्ति । ववान ववनतुः ववनुरिति चान्द्रा उदाहरन्ति' इति ब्रुवन्मैत्रेयरक्षितः परस्मैपदिनञ्चैनं मेने । 'ष्ट​न वन शब्दे । 'वन षण सम्भक्तौ । 'अर्थभेदाद्द्विष्पाठ' इति मैत्रेयरक्षितः । 'ष्ट​न ध्वने'ति तु क्षीरस्वामी । 'कगे नोच्यते' । 'वनु च नोच्यते' । अस्यायमर्थ इति नोच्यते । क्रियासामान्यमस्यार्थ इति यावत् । 'इह शास्त्रे नोच्य​त' इत्येके' इति मैत्रेयरक्षितः । शास्त्रान्तरात् प्रयोगोऽस्यावगन्तव्य इति यावत् । क्षीरस्वामी तु---'अस्यायमर्थ इति नोच्यते' । अनेकार्थत्वान्नोच्यत इति योऽर्थस्तत्रार्थे कगिरित्येके' इति । अन्त्ये तु स एवाह ---'क्रियासामान्यवाचित्वान्नोच्यते' इति । मित इति एतच्च मित्त्वमनुपसर्गस्य विकल्प्यते, सोपसर्गस्य तु नित्यम् । वानयति वनयतीति यदाह---'ज्वलह्व​लह्मलानामनुपसर्गाद्वा' । 'ग्लास्नावनुवमां च' इति । एषामनुपसर्गाणां मित्त्वं वा भवती-


१. न केवलं कगेरर्थावचनं, किन्तु वनेश्वेत्येवमर्थे चकारः । समुच्चेयं च व्यवहितं स्मारयितुं 'कगे नोच्यते' इत्यस्योपन्यासः. २. वनुधातौ इत्यर्थः स्यात् .