पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१२१

पुटमेतत् सुपुष्टितम्
९६
दैवं

 दिवादेः कुप्यति क्रोधे भाषार्थे कोपयेत् कुपेः ॥ १३६ ॥

  'कुप क्रोधे' । कुप भाषार्थः ॥

 आपयत्यापतीत्यापेर्यौ वा णौ लम्भने पदे ।
 व्याप्त्यर्थस्यास्य तु स्वादेराप्नोतीति $पदं भवेत् ॥

  'आप्लृ लम्भने' इत्यत्र मैत्रेयरक्षितेनापत इत्यात्मनेपदमप्युदाहृतमुपलभ्यते । दैववशात्तु *तस्यापि नैतदस्तीति प्रतीयते । तदनुसारेणैव हि प्रायेण देवः प्रवर्त्तमानो दृश्यते । आप्लृ व्याप्तौ' ।

 स्पर्शे चुपति मन्दायां गतौ तु शपि चोपति ।

  'चुप स्पर्शे' । तुदादिः । 'दीर्घोऽकितः' (७-४-८३) इत्यत्र भाष्ये चेच्छिद्यते चोच्छुप्यते इति 'छे च' (६-१-७३) इत्युदाहरणाच्छकारादिर*यं युक्तः । 'चुप मन्दायां गतौ' ॥

 शपि तोपति हिंसायां तत्रैव तुपतीति शे ॥ १३८ ॥
 तत्रैव शशपोस्तुम्पेदर्दने तुम्पयेण्णिचि ।

  'तुप तुम्प हिंसायाम्' । अत्र च 'अनिदिताम्' (६-४-२४) इति नलोपे कृते 'शे तृम्फादीनाम्' इति वार्तिकेन नुम् । आदिशब्दः प्रकारार्थः सादृश्यार्थः । तेन तुदादिषु ये नोपधाः पठ्यन्ते, ते तुम्फादयः। 'तुबि तुपि अर्दने' इति मैत्रेयरक्षितः । लुबि तुबीत्येव बहवः ॥

 लुम्बयेत् तुम्बयेदर्दे शपि लुम्बति तुम्बति ॥ १३९ ॥

  'लुबि तुबि अर्दने' ॥


१. मैत्रेयरक्षितस्यापि. २. भौवादिकस्तु चादिरेव सर्वसम्मतः.


$ 'भवेत् पदम्' इति गपुस्तके पाठः.