पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१२३

पुटमेतत् सुपुष्टितम्
९८
दैवं

 हिंसाभाषणयोः शोभेच्छोभार्थे शुभतीति शे ॥१४३ ॥
 शोभते शपि दीप्त्यर्थे शुम्भेरन्यत् तङः समम् ।

  'शुभ शुम्भ भाषणे हिंसायां च' । क्षीरस्वामी "'शुम्भ भाषणे हिंसायां च' भासन इति च दुर्गः। षोपदेशोऽयमिति गुप्तः 'सावष्टम्भनिषुम्भसंभ्रमनमद्भगोले' त्यादिदर्शनाद्” इत्याह । धनपालशाकटायनौ (त?) *यथा दुर्गः। 'शुभ शुम्भ शोभार्थौ' 'शुभ दीप्तौ' । तत्र च तङोऽन्यच्छुम्भेरपि सममित्यर्थः, हिंसाद्यर्थत्रये शशपोः शुम्भतीति भवतीति यावत् । तृन्फादित्वान्नुम् ॥

 क्षुभ्नाति क्षोभते क्षुभ्येदिति सञ्चलने क्षुभेः ॥ १४४ ॥

  'क्षुभ सञ्चलने' । क्र्यादिर्भूवादिर्दिवादिश्च । मध्यमोऽनुदात्तेत् । आद्ये 'क्षुभ्नादिषु च' (८-४-३९) इति णत्वाभावः ॥

 नभ्येन्नभ्नाति नभते हिंसायां तत्तुभेः समम् ।

  ‘णभ तुभ हिंसायाम्' । दिवादिः क्र्यादिर्भूवादिश्च । अन्त्योऽनुदात्तेत् ॥

 जृम्भणे जम्भते याभे जम्भेन्नाशे तु जम्भयेत् ॥ १४५ ॥

  'जभ जृभि गात्रविनामे' । 'रधिजभोरचि' (७-१-६१) इति नुम् । 'जभीत्यके' इति मैत्रेयरक्षितः । *तदा निष्ठायां जब्धम् । अन्यदा जभितम् । 'भयविपरीतो मैथुने । विपरीत इति यमेत्यर्थः । 'जभ इत्येके' इति मैत्रेयरक्षितः । जभ चेति धनपालः । यभजभेति शाकटायनः । न्यासे तु 'राधिजभोः' (७-


१. यथा दुर्गः = दुर्ग इव तावपि भासने इत्यर्थे वदत इत्यर्थः. २. ईदित्त्वे.