पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१२७

पुटमेतत् सुपुष्टितम्
१०२
दैवं

कौमारभोजीयाः । धनपालस्तु 'दर्शने न भवती'त्युक्त्वा 'अदर्शने इत्येके[१]' इत्याह । शाकटायनश्चात्रैवानुकूलः । एषु च 'अनन्तरस्यविधिर्वेति नीत्या प्रथम एव प[२]क्षो युक्तः । नञ्प्रश्लेषक्ले[३]शश्चैवं परिहृतो भवति । तत्र च दर्शने निशामयति रूपमिति भवति । अन्यत्र निशमयति श्लोकं, शमयति रोगमिति ॥

 भामेर्भामयति क्रोधे तत्रैव शपि भामते ॥ १४९ ॥

  'भाम क्रोधे' । आद्यः कथादिः । अन्त्योऽनुदात्तेत् ॥

 वित्तत्यागे व्यययति व्ययति व्ययते गतौ ।

  'व्यय वित्तसमुत्सर्गे' । कथादिः । 'व्यय गतौ' ॥

 पूरेराप्यायनेऽर्थे स्यात् पूर्यते पूरयेदपि ॥ १५० ॥

  'पूरी आप्यायने' । दिवादि[४]र्ग्रसादिश्च ॥

 स्तेये चोरयतीति स्याण्णिचि चोरयते चुरेः ।

  केचित्त्वेतन्न पठन्ति । 'चुर स्तेये । 'चुर छेदने । तुदादिः । णिच्चास्माद्धेतुमण्णिच् । चोरयत इत्येतच्च चोरयतीत्यस्याप्युपलक्षणम् । इति स्यादित्येतद्वा चुरेरित्यनेन सम्बद्ध चुरश्चोरयतीति स्यात्, चोरयत इति चेति व्याख्येयम् । चुरतीति तु वाच्ये णिचा निर्देशो वैचित्र्यार्थः । सर्वथाप्यत्रार्थतः शब्दतश्चाञ्जस्यं नैव पश्यामः । 'छुर च्छेदने' इत्येव च पाठः । तथा च 'सामोन्मुखेनोच्छुरिता प्रियेण' इति भट्टिः । 'स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम्' इत्यमरसिंहश्च । तच्चैतत्


  1. ते च क्षीरस्वामिपक्ष्याः.
  2. स च मित्त्वप्रतिषेधपक्षः.
  3. क्लेशो ह्ययमवर्जनीयो मित्त्वविधिवादिनो दर्शने मित्त्वं मा भूदिति.
  4. आस्वादीय इत्यर्थः.