पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१३२

पुटमेतत् सुपुष्टितम्
१०७
पुरुषकारोपेतम् ।

 देवयेतेदितो दिन्वेद् देवेर्देवेत देवने ।

  'दिवु अर्दने' । 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु' । 'दिवु परिकूजने' । चितादिः। 'हिवि दिवि धिवि जिवि प्रीणनार्थाः' । 'तेवृ देवृ देवने' । अनुदात्तेतौ ॥

 माने गर्वयते दर्पे गर्वतीति भवेच्छपि ॥ १६१ ॥

  'गर्व माने' । पदादिः । 'कर्व खर्व गर्व दर्पे' ॥

 ष्ठीवति ष्ठीव्यतीत्येते स्यातां निरसने ष्ठिवेः ।

  'ष्ठिवु निरसने' । अन्त्यो दिवादिः । 'सादेशे सुब्धातुष्ठिवुष्वक्कतीनां प्रतिषेधः' । इति वार्तिकेन सत्वाभावः । 'ष्ठिवुक्लमचमां शिति (७-३-७५) इति दीर्घः ॥

 पूरणे पूर्वतीति स्यात् पूर्वयेण्णौ निकेतने ॥ १६२ ॥
 पूर्व्यतीति तु यत् स्वप्ने तत् कण्ड्वादिषु दर्शनात् ।

  'पुर्व पर्व मर्व पूरणे' । 'उपधायां च' (८-२-७८) इति दीर्घः । 'पुर्व निकेतने' । तच्च निवासः। 'पूर्व भावे स्वप्ने च' ।कण्ड्वादिगणपाठेषु पूर्वशब्दो न दृश्यते । यस्त्वयं दर्शितः, सोऽप्येवं लोटोऽर्थनिर्देश एव भवेत् । तथा चामोघायां वृत्तावर्थनिर्देशाद्विना शाकटायनः कण्ड्वादीन् पठन् पूर्वशब्दं न पपाठ । गणपाठे तु लोटो धौर्त्ये पूर्वभावे स्वप्ने चेत्यर्थत्रयं निर्दिदेश ॥

 व्यक्तोक्तौ क्लेशते क्लेशेः क्लिश्नाति तु विबाधने ॥ १६३ ॥
 दिवादेरुपतापेऽर्थे तङि स्यात् क्लिश्यतेपदम् ।

  'क्लेश व्यक्तायां वाचि' । अनुदात्तेत् । बाधन इति दुर्गः । 'क्लिशू विबाधने' । क्र्यादिः । क्लिशु उपतापे ॥