पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१३६

पुटमेतत् सुपुष्टितम्
१११
पुरुषकारोपेतम् ।

त्यपरे । तथा च क्षीरस्वामी- "'घसि करणे' । घंसते । चन्द्रो घषीत्याह । घंषते । 'घुषि कान्तिकरणे' इति दुर्गः" इति ॥

 ईर्ष्यायामादरे चार्थे क्रमात् सूर्क्ष्यति सूर्क्षति ॥ १७० ॥

  'सूर्क्ष्य ईर्क्ष्य ईर्ष्य ईर्ष्यार्थाः' । 'षूर्क्ष आदरे' इति च अनादरे इति च बहवः । क्षीरस्वामी 'षूर्क्ष्य अनादरे' इति पठित्वाह- "षान्तोऽयमिति चन्द्र' इति । तत्र च '*सोमेन यक्ष्यमाणो नर्तुं सूर्क्ष्येन्न नक्षत्रम्' इति दर्शनाद्यथादैवमेव *युक्तम् ॥

 धारणे पोषयेत् पुष्टौ पुष्येत् पुष्णाति पोषति ।

  'पुष धारणे' । ग्रसादिः । 'पुष पुष्टौ' । दिवादिः क्र्यादिर्भूवादिश्च । 'पूष वृद्धौ' इत्यस्य तु पूषति ॥

 म्लेच्छने म्रक्षयेन्म्रक्षेत् सङ्घाते

  'म्रक्ष म्लेच्छने' । तच्चाव्यक्तवाग् अपशब्द इत्यर्थः । 'म्लेच्छो हवा एष यदपशब्दः' इति च श्रूयते । 'म्रक्ष सङ्घाते' ॥

     दाहकर्मणि ॥ १७१ ॥

 प्लोषति प्लुष्यतीति स्तां प्लुष्णाति स्नेहनादिषु ।
 प्रुष्णाति च प्रोषति च दाहे

  'श्रिषु श्लिषु प्रुषु प्लुषु दाहे' । 'प्लुष दाहे' । पुषादिः । क्षीरस्वामीत्व*न्यथापि दिवादावमुं पपाठ । तत्फलभेदः पुनरप्लुषदप्लोषीदित्यङो भावाभावौ । 'प्रुष प्लुष स्नेहनसेचनपूरणेषु' ।


१. सोमेन यक्ष्यमाणो 'वसन्ता ब्राह्मणोऽग्निमादधीत' 'उत्तरयोः फल्गुन्योरग्निमादधीत' इत्यादिऋतुनक्षत्राणि नाद्रियेतेत्यर्थकम् आपस्तम्बश्रौतसूत्रमिदम् . २. दैवोक्तमादरार्थत्वमेव धातोर्युक्तं, न पुनरन्योक्तमनादरार्थत्वमित्यर्थः. ३. पुषादेहिरपि.