पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१३८

पुटमेतत् सुपुष्टितम्
११३
पुरुषकारोपेतम् ।

 श्लिष्यत्यालिङ्गने दाहे श्लेषति श्लेषणे णिचि ॥ १७५ ॥
 श्लेषयेत्

  'श्लिष आलिङ्गने' । दिवादिः । अत्रार्थे आङ्पूर्वत्वं प्रायिकमेव । यदाह भट्टिः- ‘मा न श्लिक्षः प्रियं प्रिये' इति । माघश्च 'श्लिष्यन्तं मुहुरितरोऽपि तं निजस्त्रीम्' इति । 'श्लिषु दाहे' । 'श्लिष श्लेषणे ॥

   क्रमतोऽलीके तुष्टौ हर्षति हृष्यति ।

  'हृषु अलीके' । 'हृष तुष्टौ' । दिवादिः ॥

 शक्तौ वर्षयते सेके वर्षेत् स्नेहे तु वर्षते ॥ १७६ ॥

 'वृष शक्तिसम्बन्ध' इति तु प्रायस्तन्त्रान्तरेऽपि पठ्यते । 'वृषु सेचने' । 'वर्ष स्नेहने' । अनुदात्तेत् ॥

 भक्षयत्यदने भक्षेः शपि भक्षति भक्षते ।

  'भक्ष अदने' । 'भक्ष भक्षणे' । भ्लक्षेत्येक' इति मैत्रेयरक्षितः । भ्रक्षेति क्षीरस्वामी । यथा तु ‘गतिबुद्धी' (१-४-५२) त्यत्र 'भक्षेरहिंसार्थस्य' इति वार्तिकं प्रकृत्य 'भक्षयति पिण्डं देवदत्त' इत्येवोक्तं भाष्ये न पुनर्भक्षतीत्यपि, तथा भक्षतिर्नैवास्तीति गम्यते ॥

 कान्तौ लष्यति लष्येत श्यनि वा लषते लषेत् ॥ १७७॥

  'लष कान्तौ' । श्यनि वेति । वा भ्राशेति (३-१-७०) विकल्पेन श्यनि । ततश्च फलतः पुनःपाठं मत्वेदमुक्तम् । एतच्च क्रमप्रभृतीनामपि कामं द्रष्टव्यम् ॥

 कर्षत्याकर्षणे शे तु कृषते कृषतीत्युभे ।