पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

  "कृष्णलीलाशुकस्येयं कृतिः कृतिमनोहरा ।
  पुष्णती कृष्णसम्प्रीतिं भुवनान्यभिपुष्यतु ॥"

इति पद्यस्यानन्तरमेकं मङ्गलाशंसापद्यं लिखितमस्ति--

  "काञ्चीति काञ्चन पुरीं प्रथिताद्भुतश्रीः
  काभिश्चिदुत्सवविभूतिपरम्पराभिः ।
  चेतःस्थितिं च जगतामधिवासयन् वो
  ++++++++ विजयाय भूयात् ॥"

इति । इदं कृष्णलीलाशुकेनैव विरचितमित्यभिमाने काञ्चीपुरमस्य वासस्थानमित्यपि काञ्चीस्मरणादुत्प्रेक्ष्यताम् ॥ राजकीयग्रन्थशालावर्तिनो दैवपुरुषकारयोरादर्शग्रन्था एते--

[१]. दैवं (तालपत्रात्मकं केरलीयलिपि)
[२]. दैवं "
[३]. पुरुषकारः (दैवसहितः) "
[४]. पुरुषकारः(१२० श्लोकानां) "

एषु ग पुस्तके ९४ तमं पत्रं लुप्तम् । किन्तु तावता ३६० अक्षराणामेव लोपस्य सम्भावनात्. पुरुषकारप्रतिरूपान्तरस्यासमग्रस्यापि बहुशोऽन्विष्टस्यानुपलम्भाच्च समग्रकल्पे तस्मिन् समग्रसाधारणी तृप्तिरधिगन्तव्यासीत् । तदिदमादर्शचतुष्टयमाधारं कृत्वा माधवीयधातुवृत्त्यादिग्रन्थसाह्येनैतत्संशोधनमसाधयं; पुस्तकेऽस्मिन् पुरुषकारस्य क्वचित्क्वचिदाशयमभिव्यङ्क्तुं लघ्वीं कामपि टिप्पणीं च प्रतिपत्रमधस्तात् समयोजयम् ॥

अनन्तशयनम्.}
त. गणपतिशास्त्री.
 
३०-११-१०८०.
 

  1. अयं ग्रन्थः शुद्धो द्विशतवर्षदेश्यश्च । १९. पत्राणि । प्रतिपत्रं १५ पङ्क्तयः । प्रतिपङ्क्तिं ३१ अक्षराणि.
  2. अयं तु शुद्धाशुद्धः । १४. पत्राणि । प्रतिपत्रं १८ पङ्क्तयः । प्रतिपङ्क्तिं १४ अक्षराणि.
  3. अयं शुद्धप्रायः द्विशतवर्षदेशीयश्च । १०२. पत्राणि प्रतिपत्रं १६ पङ्क्तयः । प्रतिपङ्क्ति २३ अक्षराणि.
  4. अयं शुद्ध उपशतवर्षदेशीयश्च । ३१ पत्राणि । प्रतिपत्रं २४ पङ्क्तयः । प्रतिपङ्क्ति ३४ अक्षराणि.