पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१४१

पुटमेतत् सुपुष्टितम्
११६
दैवं

विशेषणोपादानं स्यात् । एवं च 'स्यात्त्वक्षतीति पठित्वा तदेव चकारेणाप्यनुकृष्य तनूक्रियायाञ्च त्वक्षतीति भवतीति कामं व्याख्यायताम् । इटा [१]भिदेत्यप्यूह्यताम् । तक्ष्णोति तक्षेदिति च लषिवद्वा [२]सादृश्याद्वा नीयताम् । 'तक्षू त्वक्षू तनूकरणे' । 'अक्षोऽन्यतरस्याम्' । 'तनूकरणे तक्षः' (६-१-७६) इति वा श्नुः ॥

 आशंसते स्यादिच्छायांशंसतीति स्तुतौ भवेत् ॥ १८३ ॥
 हिंसायां शसति

  'आङः शसि इच्छायाम्' । अनुदात्तेत् । क्षीरस्वामी तु 'दौर्गा आङः शनरिवत्याहुः' इत्याह; आशंस्यते आशस्यत इति फलभेदं च । “शन्सु स्तुतौ । [३]शंस्विति रूढे पाठेऽपि नोपध एवायम् । तत्फलं च शस्यत इत्यादौ नलोपः । 'शसु हिंसायाम् ॥

इच्छायामाशास्ते शास्ति शासने ।
 

  'आङः शासु इच्छायाम्' । 'शासु अनुशिष्टौ' । अदादी ॥

 शब्दार्थे नासते नासेः कौटिल्ये नसते नसेः ॥ १८४ ॥

  'णासृ रासृ शब्दे' । ‘णस कौटिल्ये' ॥

 असतेऽसति गत्यादौ भुव्यस्ति क्षेपणेऽस्यति ।

  'अस गतिदीप्त्यादानेषु' । तथा च काव्यालङ्कारे वामनः-" 'लावण्य उत्पाद्य इवास यत्नः' इत्यत्र आसेत्यसतेः” इति । 'अष इत्येके' इति मैत्रेयरक्षितः । आषिति च शाकटायनः । 'अस भुवि' । अदादिः । भवनं भूः । 'असु क्षेपणे' । दिवादिः ॥


  1. त्वक्षेस्त्वचने नित्यमिट् , तनूकरणे तु ऊदित्त्वाद् वैकल्पिक इति भेदः.
  2. लषिवत् फलतो द्विष्पाठानाश्रयणेऽपि तक्षेस्त्वक्षधातुना भूयोवयवैक्यात् सहोक्तिः समर्थ्यतामिति भावः
  3. प्रसिद्धे.