अपरथा च ध्रसु इत्येव ब्रूयादित्यभिप्रायः । यथा तु भूधातोः स एवाह-
दरिद्राजागृदीधीङामेकाचां च चिरेर्जिरेः । |
इति, तथा अत्रेत्त्वेन भाव्यम् । ध्रसू इति च शाकटायनः ॥
लासयेच्छिल्पयोगेऽर्थे श्लेषणे क्रीडने लसेत् ॥ १९ ॥
'लस शिल्पयोगे' । शिल्पोपयोग' इति क्षीरस्वामी । 'केचिन्मूर्धन्यान्तमेनं धातुं पठन्तीति च । 'लस श्लेषणक्रीडनयोः ॥
भाषणे त्रंसयेत् त्रंसेर्धारणे [१]त्रासयेण्णिचि ।
त्रसति त्रस्यतीत्येवमुद्वेगार्थे तु वा श्यनि ॥ १९१ ॥
त्रसि भाषार्थः । 'त्रस धारणे' । अत्र मैत्रेयरक्षितः- 'त्रासयति मृगान् । वारणे धारणशब्दः' इति । वारणे इत्येव च शाकटायनः । 'त्रसी उद्वेगे' । 'वा भ्राशेति (३-१-७०) श्यन् ॥
णौ पिंसयति भाषार्थे गत्यां तु शपि पेसति ।
पिसि भाषार्थः । 'पिस गतौ' इत्यपि चुरादौ पठ्यते । 'तुजि पिजि पिस हिंसाबलादाननिकेतनेषु' इति तु धनपालः ।शाकटायनस्याद्ययोरुदित्पाठमात्रं विशेषः । सर्वथा तस्य पेसयतीति द्रष्टव्यम् । 'पिसृ पेसृ गतौ । निदृनेदृवद् द्वावपीह कामं ग्राह्यौ ॥
गतिशासनयोः कंस्ते कसतीति गतौ शपि ॥ १९२ ॥
'कसि गतिशासनयोः। कशेति [२]वामनः । उक्तं च भूवा