पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१६३

पुटमेतत् सुपुष्टितम्
दैवं

मन्थार्थे खण्डते खण्डेर्भेदार्थे खण्डयेण्णिचि ।
हेडतेऽनादरे हेडेर्वेष्टने हिडयेन्मितः ॥ ८५ ॥

होडतीति गतौ होडेर्होडतेऽनादरे पुनः ।
कण्डयदिति भेदे णौ मदे तु शपि कण्डते ॥ ८६ ॥

लाडयत्युपसेवायां विलासे तु लडेच्छपि ।
मृडेन्मृण्णाति सुखने तत्रैव मृडतीति शे ॥ ८७ ॥

वैकल्यदाहरक्षासु कुण्डेत् कुण्डेत कुण्डयेत् ।
तोडनार्थे तुडेस्तुण्डेस्तुडेत्तोडति तुण्डते ॥ ८८ ॥

कल्याणे भण्डयेद्भण्डेत् परिहासे तु भण्डते ।
प्रेरणे जोडयेच्छे तु बन्धने जुडतीति च ॥ ८९ ॥

सङ्घाते पिण्डयेत् पिण्डेस्तत्रैव शपि पिण्डते ।
कणेः कणति शब्दार्थे काणयेण्णौ निमीलने ॥ ९० ॥

भूवाद्योर्घुणिघूर्ण्योः स्तां घोणते घूर्णते शपि ।
भ्रमणेऽत्र तुदाद्योः शे स्यातां घुणति घूर्णति ॥ ९१ ॥

अणेरणति शब्दार्थे प्राणने त्वण्यते श्यनि ।
मितः श्रणति दानार्थे श्राणयत्यत्र णौ पदम् ॥ ९२ ॥

व्रणेच्छब्दार्थविषये व्रणयेद् गात्रचूर्णने ।
आमन्त्रणे तु कुणयेच्छब्दे चोपकृतौ कुणेत् ॥ ९॥

बन्धनेऽन्तति सातत्यगमनेऽतति चिन्तयेत् ।
स्मृत्यां चेतति संज्ञाने तत्र चेतयते णिचि ॥ ९४ ॥

कृणति कृन्ततीत्येते वेष्टने छेदने क्रमात् ।
कीर्त्तयेदिति संशब्दे गत्यर्थे पतयेत् पतेत् ॥ ९५ ॥

यतते तु प्रयत्नार्थे निराकारे तु यातयेत् ।
वर्तयेद् भाषणार्थे णौ वर्तने शपि वर्तते ॥ ९६ ॥

ग्रथ्नातीति तु सन्दर्भे ग्रन्थयेद् ग्रन्थतीति यौ।
कौटिल्ये ग्रन्थते ग्रन्थेर्ग्राथयेद् ग्रथति ग्रथेः ॥ ९७ ॥