पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/३९

पुटमेतत् सुपुष्टितम्
१४
दैवं

 दा[१]ञो दत्ते ददातीति दाणो यच्छति दो द्यति ।
 दाति दायति दाब्दैपोर्दयते रक्षणे ङितः ॥ ४ ॥

 'डुदाञ् दाने' जुहोत्यादिः । यद्यपि च दत्त इत्यादिनिर्देशादेव धातूनां तत्तद्गणेषु पाठः प्रायेण व्यक्तः, तथापि तत्रतत्रैवंविधं व्याख्यानं यथासम्भवं बालार्थं पाठशुद्ध्यर्थं च । 'दाण् दाने' भूवादिः । एवमुत्तरेषु[२] अविशेषोक्तौ भूवादित्वं द्रष्टव्यम् । पाघ्रेत्यादिना (७-३-७८) यच्छादेशः[३] । प्रपूर्वश्चायं प्राचुर्येण प्रयुज्यते । क्वचित् पुनरन्यथापि । 'य[४]च्छति प्रियतमे रभसेन' । 'शर्म यच्छत द्विपदे चतुष्पदे' इति । एवमुत्तरेष्वप्यवद्यतीत्यादौ बहुलमुपसृष्टता द्रष्टव्या । 'दो अवखण्डने' दिवादिः । 'ओतः श्यनि' (७-६-७१) इत्योकारलोपः । 'नु[५]मादिनान्यभावेऽपि सादृश्यात् केऽप्यवक्षत' इति वक्ष्यमाणन्यायेनात्र पुनःपाठतां मन्यते । 'दाप् लवने' अदादिः । 'दैप्[६] शोधने' । अवपूर्वश्चायं प्रयुज्यते । तथाच 'दाधाघ्वदाप्' (१-१-२०) इत्यत्र भाष्यम्--'अवदायति अवदातं मुखम्' इति । 'देङ् रक्षणे'।

 [दाने दत्ते ददातीति दाञो दाणस्तु यच्छति ।
 लवने दाति दापस्तु दो द्यतीत्यवखण्डने ॥
 रक्षणे दयते देङो दायेद् दैपस्तु शोधने ।]


  1. कथादिषु हृस्वाकारस्यान्त्यस्य सम्भवतोऽपि प्रयोगासमवायात् तान्
    हलन्तकल्पतया हलन्तेषु गणयिष्यन् प्रथममाकारान्तधातूनेवारभते 'दाञ' इति ।
  2. 'ष्वपि' इति गपुस्तके पाठः.
  3. 'शश्च' इति गपुस्तके पाठः.
  4. किरातार्जुनीये तु 'यच्छति प्रतिमुखं दयिताया' इति 'चुम्बति प्रियतमे रभसेन' इति च दृश्यते.
  5. नवनवत्युत्तरशततमश्लोके.
  6. अविशेषोक्त्या भ्वादित्वमस्य द्रष्टव्यम्.