इति पाठेऽपि न फलभेदः । अत एवैवंविधाः पाठभेदाः पाठाभेदेऽपि वा पौर्वापर्यभेदा नैवाभिधायिष्यन्ते ॥
गाते गाङो गतावर्थे [१]कै गै शब्देऽस्य गायति ।
'गाङ् गतौ' । त्रिष्वपि वचनेषु समानं रूपम् ॥
पाने पिबति रक्षायां पाति पायति शोषणे ॥ ५ ॥
'पा पाने' । 'पा रक्षणे' अदादिः । 'पै ओवै शोषणे' ॥
धेटो धयति पानार्थे धाञो धत्ते दधात्यपि ।
'धेट् पाने' 'डुधाञ् दानधारणयोः' जुहोत्यादिः । तथा च 'डुदाञ् दाने । डुधाञ् धारणे च' इति शाकटायनः । 'डुधाञ् धारणपोषणयोः । दानेऽप्येके' इति तु मैत्रेयरक्षितः ॥
[२]द्रै स्वप्ने द्रायति द्राति कुत्सिते गमने लुकि ॥ ६ ॥
'द्रा कुत्सितायां गतौ' । लुकि शब्लुकि ॥
शब्दसङ्घातयोर्धात्वोस्स्त्यायत्येकस्य सो न षः ।
'स्त्यै ष्ट्यै सङ्घातशब्दयोः' । स्त्यै सङ्घाते, ष्ट्यै शब्द इत्यनुक्ते यथासङ्ख्यं नेष्यते । एवमन्यत्राप्येवंविधे धातुपाठे द्रष्टव्यम् । तथाच 'ऋ[३]दितो मेदते मेदेद् मेधाहिंसनयोर्द्वयोः' । इति, 'प्र[४]त्येकं निदिनेद्योस्तां नेदते नेदतीत्युभे । कुत्सायां सन्निकर्षे वा' इति च वक्ष्यते । तत्र च शब्दे सङ्घाते वा यौ धातू,