पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४२

पुटमेतत् सुपुष्टितम्
१७
पुरुषकारोपेतम् ।

ष्ट्यायतीत्येव प्रयोगाभ्युपगमे सादित्वदन्त्यपरत्वयोरभावात् ष्ट्यायतिं न व्याप्नुयात् । व्यापकेन च नाम लक्षणेन भवितव्यम् ॥

 सै क्षये सायतीतीष्टमन्तकर्मणि तु स्यति ॥ ७ ॥

  'क्षै षै जै क्षये' । सै इति तु पाठः षोपदेशलक्षणविरुद्धः । एतेनैतदपि प्रत्युक्तम्--यदुक्तं 'क्रियार्थो धातुरि'त्यत्र शाकटायनेन--"षच समवाये । सचति सिषाचयिषति । केषाञ्चिदयमषादिः पाठे । तेषां सिसाचयिषति । 'सृपिसृजिसृस्तृस्तॄस्त्यासेकृवर्जमि'ति च यत् केषाञ्चित्, तदुपलक्षणम् । अन्यथा सचतिसायत्यादयोऽपि षादयः स्युः" इति । प्रबलविरोधे हि बाधैव दुर्बलस्य न्याय्या । न पुनरुपलक्षणादिभिरुपरोधगन्धोऽपि । तथा च पा[१]रमर्षं सूत्रं [२]विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम्' इति । एवं च श्लोकेऽपि 'षै' इत्येव पठितुं युक्तम् । 'षो अन्तकर्मणि' । दिवादिः । तच्चावसानक्रिया ॥

जानातीति श्नि सिध्येज्ज्ञपयति तु पुनर्मारणादौ घटादे-
श्चौ[३] मित्त्वेऽपीदमेव ज्ञप मिदिति पदं ज्ञापने मारणादौ ।
तेनार्थाज्ज्ञापनेऽर्थे ज्ञपयतिपदवत् ज्ञापयेदित्यपि स्या-
दुक्तस्योक्तिर्णिचश्चेत्युदितविहतये ज्ञापयेज्ज्ञो नियोगे ॥ ८ ॥

  'ज्ञा अवबोधने' इत्यस्य श्नाविकरणे सति जानातीति सिध्येत् । 'ज्ञाजनोर्जा' (७-३-७९) इति जादेशः । [४]रूपोदाहर


  1. जैमिनीयम्.
  2. इदं १ अध्याये ३ पादे तृतीयं सूत्रम् । अनेन हि 'औदुम्बरीं स्पृष्ट्वोद्गायेद्' इत्यादिप्रत्यक्षश्रुतिविरोधे 'औदुम्बरी सर्वा वेष्टयितव्या' इति सर्ववेष्टनादिस्मृतीनामनुमेयमूलश्रुतित्वेन दुर्बलानां बाधो बोध्यते.
  3. 'चुरादिश्चुः' (११८ श्लो.) इति परिभाषया चुरादावित्यर्थः.
  4. 'ज्ञारू' इति गपुस्तके पाठः.